________________
आख्यातप्रकरणम्...
(११५)
Pawwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwww..
ओणेक्रदित्करणस्य सामान्यापेक्षज्ञापकत्वात् । प्राणिणिषति । उचिच्छिषति । उच्छेः च च्छाभ्यां सहितस्यैव द्वित्वम् । निमित्ताभावे नैमित्तिकस्याप्यभाव इति बनित्यम् । जुहूपति । शुशावयिषति । शिश्वाययिषति । जुहावयिषति । पुस्फारयिषति । पुस्फोरयिषति पिपावयिषति । लिलावयिषति। आन्तेिति इत्वम् । मुश्रु इत्यादिना वेत्वम् । शिश्रावयिषति। शुश्रावयिषति ॥ णिस्तोरेवाऽस्वदस्विदसहः षणि ॥२।३।३७॥
सो नाम्यादेः परस्य ष् स्यात् ॥ सिषेवयिषति । तुष्टूपति । स्वदादिवर्जनं किम् ? । सिस्वादयिषति । सिस्वेदयिषति । सिसाहयिषति । एवेति किम् ? सुसूपति। एवकारो विपरीतनियमनिवृत्त्यर्थः। तेन असीषिवत् । तुष्टाव । षणीति किम् ? सिषेव । षत्वं किम् ? तिष्ठासति । सुषुप्सति । कथमधीषिषति प्रतीषिषति, धातोरेव षत्वनियमस्योक्तत्वात् इह तु सनो द्विरुक्तत्वान्नियमो न पामोति । उपसर्गात्सुम् इत्यादिसूत्रे अद्वित्व इत्युक्तेरिह न षत्वम् । अभिसुसूषति ॥
सजेर्वा ॥ २।३।३८ । नाम्यादेः परस्य सः षणि ष स्यात् ॥ सिपञ्जयिषति । सिसअयिषति ॥
स्वपो णावुः ॥ ४ । १ । ६२॥ द्वित्त्वे पूर्वस्य ॥ सुष्वापयिषति ।णाविति किम् ? सिष्वापकीयिपति । स्वपो णाविति किम् ? स्वापं चिकीर्षति सिष्वापयिषति । स्वपो णौ सति द्वित्त्व इति किम् ? सोषोपयिषति ॥
॥ इति सन्नन्तप्रक्रिया ॥