________________
(११४)
श्रीलघुहेमप्रभाव्याकरणम्.
-vvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvv
ऋस्मिपूङञ्जशौकगधृप्रच्छः ॥४। ४ । ४८॥
सन आदिरिट् ।। अरिरिषति । सिस्मायिषते । पिपविषते । अञ्जिजिषति । अशिशिषते । चिकरिषति । चिकरीपति । जिगरिषति । जिगरीषति । आदिदरिषते । आदिधरिपते । पिपृच्छिषति । प्रच्छसाहचर्यात् कृफ्ध इत्येते तौदादिका ग्राह्याः, तेन कृणाश्चिकीर्षति । चिकरिषति । चिकरीषति । गृणातेः, जिगीर्षति । जिगरिषति । जिगरीपति । धरतेर्दिधीर्षतीत्येव भवति ॥ __ मिमीमादामित्स्वरस्य ॥ ४ । १। २० ॥
सि सनि न च द्विः॥ मित्सति मित्सते शतम् । मित्सते । प्रमित्सति प्रमित्सते शत्रन् । मित्सति। प्रमित्सते भूमिम् । अपमित्सते यवान् । मातेर्नेच्छन्त्येके । प्रदित्सति दानम् । दित्सति पुत्रम् । दित्सति दित्सते वस्त्रम् । दित्सति दण्डम् । धित्सति स्तनम् । धित्सति धित्सते श्रुतम् । बहुवचनस्य व्याप्त्यर्थखानिरनुबन्धग्रहणे न सानुबन्धस्येत्यादि नाश्रीयते ॥
अव्याप्यस्य मुचेर्मोग्वा ॥ ४ । १ । १९ ॥ सि सनि न चास्य द्विः॥ मोक्षति । मुमुक्षति चैत्रः । अव्याप्यस्येति किम् ? मुमुक्षति वत्सम् ॥
राधेर्वधे ॥४।१। २२॥ सि सनि स्वरस्य इन च द्विः॥ प्रतिरित्सति । वध इति किम्? आरिरात्सति ॥
दीङः सनि वा ॥ ४ । २ । ६ ॥
आत् ॥ दिदासते दिदीषते । तितृक्षति । तितर्हिषति । जिगीपति । एषिषिषति । नित्यमपि द्विवचनमुपान्त्यगुणेन बाध्यते ।