________________
vvvvvvvwww
(१०२) श्रीलघुहेमप्रभाव्याकरणम्. ____ परे णौ द्वित्वे पूर्वस्याः॥ अजीगणत् । अजगणत् । अदन्तत्वं प मुखादीनां णिचसनियोग एवान्ते वक्ष्यते । ततोऽनित्यत्वेन णिजभावे जगणतुः जगणिय इत्यत्राम् न । अचीकथदिति प्रयोगदर्शनादन्येषामपि यथादर्शनमीत्वमिच्छन्त्येके । कुण गुण केतण आमन्त्रणे । २५॥ केतयति । अयं निश्रावणनिमन्त्रणयोरपीत्येके । पतण गतौ वा । २६ ॥ वा शब्दो णिजदन्तत्वयोर्युगपद्विकल्पार्थः । पतयति । अपपतत् । पक्षे पतति । णिच्सनियोगेऽप्यनदन्तोऽयमित्येके, तन्मते पातयति । वातण गतिसुखसेवनयोः। २७ ॥ सुखसेवनयोरित्येके । वा इत्येके वापयति । कयण वाक्यप्रबन्धे । २८ ॥ वाक्यप्रतिबन्धइत्यन्ये । वदन इत्यपरे । अचकथत् । श्रथण दौर्बल्ये। २९ ॥ श्रथयति । लत्वे श्लथयति । छेदण द्वैधीकरणे । ३० ॥ गदण् गर्जे ॥३१॥ अन्धण द्रष्टयुपसंहारे ।३२॥ आन्दधत् । स्तनण गर्ने । ३३ ॥ ध्वनण शब्दे । ३४ ॥ स्तेनण चौर्ये । ३५ ॥ अतिस्तेनत् । उनण परिहाणे । ३६ ॥ मा भवानूननत् । कृपण दौर्बल्ये। ३७ ॥ रूपण रूपक्रियायाम् । ३८ ॥ क्षप लाभण प्रेरणे । ३९ ॥ लमणित्यन्ये । भामण क्रोधे । ४० ॥ गोमण उपलेपने । ४१ ॥ सामण सान्त्वने । ४२ ॥ श्रामण आमन्त्रणे । ४३ ॥ स्तोमण श्लाघायाम् । ४४ ॥ व्ययण वित्तसमुत्सर्गे । ४५ ॥ गतावित्येके । वित्तेति धात्वन्तरमित्येके । सूत्रण विमोचने । ४६ ॥ मूत्रण प्रश्रवणे। ४७॥ पार तीरण कर्मसमाप्तौ । ४८ ॥ कत्र गात्रण शैथिल्ये । ४९ ॥ चित्रण चित्रक्रियाकदाचिदृष्टयोः । ५० ॥ वैचित्र्यकरणार्थोऽयं न चित्रक्रियार्थ इत्यन्ये । छिदण भेदे । ५१ ॥ मिश्रण सम्पचने । ५२ ॥ वरण ईप्सायाम् । ५३ ॥ स्वरण आक्षेपे । ५४ ॥