________________
आख्यातप्रकरणम्.
( ९९ )
इत्येके । आङः क्रन्दण् सातत्ये । १४० ॥ ष्वदण आस्वादने । १४१ ॥ संवरण इत्यन्ये । आस्वदः सकर्मकात् अस्वादयति यवागूम् । मुदण संसर्गे | १४२ ॥ गृधण प्रसहने । १४३ ॥ अशिशुधत् । अशशर्धत् । कृपण अवकल्कने । १४४ ॥ कल्पयति । अवकल्पने इत्यन्ये । जभ्रूण नाशने । १४५ ॥ अमण रोगे । १४६ ॥ चरण असंशये ॥ १४७ ॥ संशय इत्यन्ये । पूरण आप्यायने ॥ १४८ ॥ दल विदारणे ॥ १४९ ॥ णिगि यति इत्येके । दिवण अर्दने । १५० ॥ पश पषण बन्धने । १५१ ।। पस् इत्येके । पुषण धारणे । १५२ ।। घुघृण विशब्दने । १५३ || अविशब्दनइत्येके । ऋदित्करणं चुरादिणिचोऽनित्यत्वेलिङ्गं । अघुषत् अघोषीत् । जुघुषुः पुष्पमाणवा इत्यादि सिद्धम् । नायं ऋदित इत्येके । आङः क्रन्दे । १५४ || सातत्य इत्यन्ये । भूष तसुण् अलङ्कारे । १५५ || जस ताडने । १५६ ॥ सण वारणे । १५७ ॥ धारणे इत्यन्ये । ग्रहणे इत्येके । वसण स्नेहछेद | वहरणेषु । १५८ ॥ घ्रसण उत्क्षेपे । १५९ ॥ उच्छ इत्येके । उकारादिरयमित्यन्ये । ग्रसण ग्रहणे । १६० ।। लसण शिल्पयोगे । १६१ ॥ लषण् इत्येके। लश् इत्यन्ये । अर्हण पूजायाम् । १६२ ॥ आर्जिहत् । मोक्षण असने । १६३ ॥ लोक तर्क रघु लघु लोच विच्छ अजु तुजु
पिजु लजु लुजु भजु पट पुट लुट घट घटु हृत पुथ नद वृध गुप धुप कुप चित्र दशु कुशु त्रसु पिसु कुसु दसु बई बहु वल्ह अहु बहु महुण् भासार्थाः | १६४ ॥ भासार्थाश्चेति पारायणम् । भाषार्थाश्चेति केचित् । भासयति । दीपयति । इन्धयति । प्रकाशयति । इत्यादि ॥
॥ इति परस्मैपदिनः ॥