________________
( ९८ )
श्रीलघुहेमप्रभाव्याकरणम्.
णावन्तः ॥ मारणे संज्ञपयति पशुम् । तोषणे विज्ञपयति गुरुम् । निशाने प्रज्ञपयति शस्त्रम् । नियोजने आज्ञापयति भृत्यम् । उक्तार्थेभ्योऽन्यत्र तु क्रादित्वाच्छूना । जानाति । च्युण् सहने । १२३|| भ्रूण अवकल्कने । १२४ || विकल्कने इत्येके । अवकल्पन इत्यन्ये ।
ओर्जान्तः स्थापवर्गेऽवर्णे ॥ ४ । १ । ६० ॥
द्वि पूर्वस्य सनि: । अब भवत् ॥ बुकण् भषणे । १२५ ॥ भषणे इत्यन्ये । रक लक रग लगणू आस्वादने । १२६ ।। आद्यावासादने इत्यन्ये । रागयति । लागयति । णिकि घटादित्वात् ह्रस्वः । लिगुण चित्रीकरणे । १२७ ॥ चर्च अध्ययने । १२८॥ चर्च परिभाषणे इति केचित् । चर्चति । अंचण विशेषणे । १२९ ॥ मुचण प्रमोचने । १३० ॥ प्रयोजने इत्यन्ये । अर्जण प्रतियत्ने । १३१ ॥ भजण विश्राणने ॥ १३२ ॥ चट स्फुटण् भेदे ॥ १३३ ॥ चाटयति । णिचोऽनित्यत्वात् चटति । घण् सङ्घाते ॥ १३४ ॥ घाटयति । अन्यत्र णिगि घटयति । हन्त्यर्थाश्च येऽन्यत्र हिंसार्थाः पठिताः dsप्यत्र ज्ञेयाः ॥
ञ्णिति घात् ।। ४ । ३ । १०० ॥
हन्तेः ॥ घातयति । अनेनैव सिद्धेऽन्येषां हिंसार्थानां चुरादौ पाठ आत्मनेपदादिगतरूपभेदार्थः । कणण निमीलने । १३५ ॥ अचीकणत् । अचकाणत् । यत निकारोपस्कारयोः । १३६ ।। निरश्च प्रतिदाने । १३७ ॥ नियतियेति ऋणम् । शब्द उपसर्गात् भाषाविष्कारयोः । १३८ ॥ विशब्दयति । योगविभागोऽत्रे. ते केचित् । शब्द उपसर्गात् इत्येकः । भाषाविष्कारयोरित्यपरः प्रशब्दयति । द्वितीयोऽनुपसर्गार्थः । शब्दयति । षूदण् आश्रवणे । १३९ ॥ क्षरण
I