________________
( ९७ )
पुलण समुच्छ्राये । ९६ ।। बिल भेदे । ९७ ॥ भिलेत्येके । तलण् प्रतिष्ठायाम् । ९८ ।। तुलण उन्माने । ९९ ॥ तुलयतीति तु तुलाशब्दात् णिज्बहुलमिति णिचि रूपम् । दुलण उत्क्षेपे । १०० ॥ बुल निमज्जने । १०१ ॥ मुलण रोहणे । १०२ ॥ कलकिलपिलण क्षेपे । १०३ ॥ पलण रक्षणे । १०४ ॥ इलण प्रेरणे । १०५ ॥ चलण् मृतौ । १०६ ॥ सान्त्वन् सामप्रयोगे । १०७ ॥ षोपदेशोऽयमित्येके । साम सान्त्वप्रयोगे इत्यन्ये । धूशण कान्तीकरणे | १०८ ॥ धूषण इत्यन्ये । धूस इत्येके । श्लिषण श्लेषणे । १०९ ।। लुषण हिंसायाम् । ११० ।। रुषण रोषे ॥ १११ ॥ प्युषण उत्सर्गे ॥ ११२ ॥ पसुण नाशने । ११३ ॥ जसुण रक्षणे । ११४ ॥ पुंसुण अभिमर्द्दने । ११५ || ब्रुस पिस जस बर्हण् हिंसायाम् | ११६ ॥ ष्निहण स्नेहने | ११७ ॥ म्रक्षण म्लेछने । ११८ ॥ भक्षण अदने ॥ ११९ ॥ पक्षिण परिग्रहे । १२० ॥ लक्षीण दर्शनाङ्कनयोः । १२१ ॥ फलवत्कर्त्तर्य्यात्मनेपदे लक्षयते । अन्यत्र लक्षयति ॥
॥ इतो अर्थविशेषे आलक्षिणः ॥
आख्यातप्रकरणम्..
ज्ञाण मारणादिनियोजनेषु ॥ १२२ ॥
मारणतोषणनिशाने ज्ञश्च ॥ ४ । २ । ३० ॥ णिचि अणिचि च णौ ह्रस्वः । निणम्परे तु णौ वा दीर्घः । केचित्तु निशामत इच्छन्ति ।
अर्तिरीिब्लीह्रीक्नूयिक्षमाय्यातां पुः || ४ ||२१||