________________
(९६ )
श्रीलघुहेमप्रभाव्याकरणम्.
स्मृदत्वरप्रथम्रदस्तृस्पशेरः ॥ ४।१।६५॥
असमानलोपे ङपरे णौ द्वित्वे पूर्वस्य ॥ इखापवादः। अपप्रयत्। छदण् संवरणे । ६६ ॥ चुदण सञ्चोदने । ६७ ॥ मिदुण् स्नेहने । ६८ ॥ नायमुदित् इत्येके । गुर्दण निकेतने । ६९ ॥ पूर्वनिकेतने इत्येके । गुईयति । छर्दण् वमने । ७० ॥ गर्दाशब्दे इत्येके । बुधुण हिंसायाम् । ७१ ॥ ठान्तोऽयमित्यन्ये । वर्धण् छेदनपूरणयोः।७२॥ गर्धण अभिकाङ्क्षायाम् । ७३ ॥ बन्ध बधण् संयमने । ७४ ॥ छपुण् गतौ । ७५ ॥ क्षपुण क्षान्तौ । ७६ ॥ टूपण समुच्छ्राये । ७७॥ अपोपदेश इत्यन्ये । उकारो हस्व इत्येके । डिपण क्षेपे ।७८॥ पण व्यक्तायां वाचि । ७९ ॥ डपु डिपुण सङ्घाते । ८० ॥ अभिमर्दन इत्येके । भान्तावेतावित्यन्ये । शूर्पण माने । ८१ ॥ शुल्बण सर्जने च । ८२ ॥ डबु डिबुण क्षेपे । ८३ ॥ केचित्तु दभदिभुदभूनपीहाधीयते । सम्बण सम्बन्धे। ८४ ॥ षोपदेशोऽयमित्यन्ये । तालव्यादिरयमित्येके । साम्बेत्येके। कुबुण आच्छादने। ८५ ॥ लुबु तुबुण् अर्दने । ८६॥ तुकुण इत्यप्यन्ये । पुर्वण निकेतने । ८७ ॥ यमण परिवेषणे ।८८॥ यामयत्यतिथीन् । परिवेषणादन्यत्र तु ॥
यमोऽपरिवेषणे णिचि च ॥ ४ । २ । २९ ।।
अणिचि णौ ह्रस्वः अिणम्परे तु वा दीर्घः॥ यमयति । यमः परिवेषण इत्यन्ये । तन्मते उदाहरणप्रत्युदाहरणयोर्व्यत्यासः। णाविति सिद्धेऽस्य णिचि चेति वचनात् अन्येषां णिचिन । स्यामयते। निशामयते । व्ययण क्षये। ८९ ॥ यत्रुण सङ्कोचने। ९० ॥ कुद्रुण अनृतभापणे । ९१ ॥ गादिरयमित्यन्ये ॥श्वभ्रण गतौ । ९२॥ तिलण स्नेहने । ९३ ॥ जलण अपवारणे । ९४ ॥ क्षलण शौचे । ९५ ॥