________________
आख्यातमकरणम्.
( ९५ )
दित्वात् णिगि ह्रस्वे लडयति । स्फुडुण परिहासे । ४० ।। ओलडुण उत्क्षेपे । ४१ ।। ओदिदयमित्यन्ये । पीडण् गहने । ४२ ॥
भ्राजभासभाषदीपपीडजीवमीलकणरणवणभणश्रणह्वेहेठलुटलुपलपां न वा ॥ ४ । २ । ३६ ॥
ङपरे णौ उपान्त्यस्य ह्रस्वः ।। अपीपिडत् । अपिपीडत् । बहुवचनं शिष्टप्रयोगानुसारेणान्येषामपि परिग्रहार्थम् । तेन अविवसत् । अवभ्रासत् इत्यादि सिद्धम् । तडण् आघाते । ४३ ॥ खड खडुण् भेदे । ४४ ॥ कडुण् खण्डने च । ४५ ।। खुडण् इत्येके । कुडुण् रक्षणे । ४६ ॥ गुडुण् वेष्टने च । ४७ ॥ चुडुण् छेदने । ४८ ॥ मडुण भूषायाम् ॥ ४९ ॥ भडु कल्याणे ॥ ५० ॥ दान्तोऽयमित्यन्ये । पिडुण् सङ्घाते । ५१ ॥ पण् इत्येके । ईड स्तुतौ । ५२ ॥ चडुण कोपे । ५३ ।। जुड चूर्ण वर्णण प्रेरणे । ५४ ॥ चूण तूणण् सङ्कोचने ॥ ५५ ॥ श्रणण दाने । ५६ ॥ अशिश्रणत् । अशश्राणत् । पूणण् सङ्घाते । चितुण स्मृत्याम् | ५८ || पुस्त बुस्त आदरानादरयोः । ५९ ॥मुस्तण् सङ्घाते । ६० ॥ कृतश् संशब्दने । ६१ ॥ क़तः कीर्त्तिः ॥ ४ । ४ । १२२ ।।
aa |
ऋवर्णस्य ॥ ४ । २ । ३७ ॥
उपान्त्यस्य ङपरे णौ वा ॥ अचीकृतत् । अचिकीर्त्तत् । स्वर्च पथुण् गतौ । ६२ ॥ स्वर्त्त कृच्छ्रजीवनेऽपीत्यन्ये । श्रथ प्रतिहर्षे । ६३ ॥ प्रतियत्ने इत्यन्ये । पृथण प्रक्षेपणे । ६४ ॥ अपीपृथत् । अपपर्थत्। पर्थण् इत्येके । पाथण इत्यन्ये । ति ।।
ગ