________________
(९०)
श्रीलघुहेमप्रभाव्याकरणम्.
____ कर्तृविहिते शिति भाः । क्रीणाति । क्रीणीतः । क्रीणन्ति । क्रीणीयात् । अषीत् । अक्रेष्ट । पिंगश् बन्धने ।२॥ पींग तृप्तिकान्त्योः । ३ ॥ श्रींगश् पाके । ४ ॥ मींगश् हिंसायाम् । ५॥ प्रमीणाति । अमासीत् । ममौ । युगश् बन्धने । ६ ॥ स्कुंग आप्रवणे । ७॥
स्तम्भूस्तुम्भूस्कम्भूस्कुम्भूस्कोः इना च ॥ ३।४ । ७८॥
कर्तृविहिते शिति श्नुः । स्तम्भ्वादयश्चत्वारः सौत्राः सर्वे रोधनार्थाः। प्रथमतृतीयौ स्तम्भार्थी, द्वितीयो निष्कोषणार्थः, तुर्यो धारणे इत्येके । स्कुनाति । स्कुनोति । स्कुनीते । स्कुनुते ।
अङप्रतिस्तब्धनिस्तब्धे स्तम्भः ॥ २ । ३ । ४१॥ - उपसर्गस्थानाम्यादेः सो द्वित्त्वेऽप्यट्यपि ष् स्यात् । विष्टनाति । व्यष्टभत् । व्यष्टम्भीत् । वितष्टम्भ । प्रत्यष्टनात् । डादिवर्जनं किं ? व्यतस्तम्भत् । प्रतिस्तब्धः । निस्तब्धः ।
__ अवाच्चाश्रयोर्जाविदुरे ॥ २।३। ४२॥ __ गम्यमाने स्तम्भः सो द्वित्त्वेऽप्यटयपि ष् स्यात् विषयश्चेत् स्तम्भिन स्यात्। दुर्गमवष्टम्नाति। अवतष्टम्भ। अवाष्टमनात्। अहो वृषभस्य अवष्टम्भः। अवष्टब्धा शरत् । अवष्टब्धा सेना। चकारोऽङ इत्यस्य अनुवृत्त्यर्थः अनुक्तसमुच्चयार्थश्च । तेनोपष्टब्ध इत्यपि । डपावादित्यकृला चकारेण सूचनमनित्यार्थम् । तेनोपस्तब्ध इत्यपि । अङ इत्येव । अवातस्तम्भत्।
स्कभ्नः ॥२।३ । ५५॥