________________
आख्यातप्रकरणम्.
( ९१ )
वेः सः ष् नित्यं स्यात् । विष्कम्भ्राति । श्नुप्रत्यये तु न । विस्कनोति । व्यञ्जनाच्छ्नाहेरानः ॥ ३ । ४ । ८० ॥
स्तभान। उत्तभान । विष्कभाण । व्यञ्जनादिति किम् ! लुनीहि । श्नाहेरितिकिम् ? अश्नाति । उत्तभ्नुहि । क्नूग्श् शब्दे ॥८॥ द्रुग्श् हिंसायाम् । ९ ॥ गतावित्यन्ये । ग्रही उपादाने । १० ॥
गृहणोऽपरोक्षायां दीर्घः ॥ ४ । ४ । ३४ ॥ विहितस्य इट: ।। ग्रहीता । अपरोक्षायामिति किम् ? जगृहिव । पूग् पवने । ११ ॥
प्वादेर्हस्वः ॥ ४ । २ । १०५ ॥
शित्यत्यादौ ॥ पुनाति । पुनीते । वृत्करणपर्यन्ताः प्वादयः । वादेरिति किम् ? व्रीणाति । श्रीणाति । आगणान्तात् प्वादय इत्यन्ये । वृत्करणं ल्वादिपरिसमाप्त्यर्थम् । तन्मते व्रिणाति भ्रिणाति इत्येव । जानातीत्यत्र तु विधानसामार्थ्यान ह्रस्वः । लूग्श् छेदने । १२ ।। धूग्श् कम्पने । १३ ॥ अधावीत् । अधविष्ट । अधोष्ट । स्तृग्ग् आच्छादने |१४|| अस्तरिष्ट । अस्तरीष्ट । अस्तीष्ट । स्तरिषीष्ट । स्तीर्षीष्ट । कुग्शू हिंसायाम् । १५ ॥ वृगश् वरणे । १६ ।। अवरिष्ट । अवरीष्ट । अवृष्र्ष्ट । वूर्यात् । वरिषीष्ट । वर्षीष्ट ॥ ॥ इति उभयपदिनः ॥
ज्यांशू हानौ । १ ॥ वयोहानावित्येके । ज्याव्यध इति वृति ॥ दीर्घवोऽन्त्यम् ॥ ४ । १ । १०३ ॥
वृत् ।। जिनाति । अज्यासीत् । जिज्यौ । जिज्यतुः । रीशू गतिरे