________________
कारकाणिः
( ८१ )
गुरुः शिष्य
यति मैत्रं द्रव्यम् किम् ? । पाच
गुरुः शिष्य धर्मम् । दर्शयति रूपतक कार्षापणम् । भोजयति बदुमोदन । जल्पयति मैत्रं द्रव्यम् । अध्यापयति बटुं वेदम् । आसयति मैत्रं चैत्रः॥ गत्यादीनामिति किम् ? । पाचयत्योदन चैत्रण मैत्रः।न्यादिवर्जनात् नाययति भारं चत्रणेत्यादि। प्रयोजकव्यापारण गिगन्तवाच्येनाणिकत्ताप्यत्वात् कर्मसंज्ञा सिद्वैवं नियमार्थ तु वचनम् । तेनान्यधातुसम्बन्धिनः कर्तृत्वमेव ॥
भक्षेहिसायाम् ॥ २ ॥ २ ॥६॥ __ स्वार्थिकण्यन्तस्याणिकर्ता णौ कर्म ॥ भक्षयति सस्यं बलीवर्दान् मैत्रः । हिंसायां किम् ? । भक्षयति पिण्डी शिशुना। आहारार्थत्वात् प्राले नियमार्थ वचनम् ॥
वहेः प्रवेयः ॥ २।२।७॥ अणिकर्ता णौ कर्म ॥ वाहयति भारं बलीवर्दान्। प्रवेय इति कि ? । वाहयति भारं भैत्रेण । प्राप्त्यर्थस्य प्रापणार्थस्य च वहेर्गत्ययत्वादकर्मकस्य च नित्याकर्मकत्वात् पूर्वेण प्राप्त नियमार्थ वचनम् । अविवक्षितकर्मकस्य तु पक्षे विध्यर्थ चेदम् ॥
हक्रोनवा ॥ २।२।८॥ __ अणिकर्ता णौ कर्म ॥ प्राप्तेऽप्राप्से चायं विकल्पः । माले, विहारयति देशमाचार्यमाचार्येण वा । विकारयति सैन्धवान् सैन्धवैर्वा । अपाप्ले, हारयति द्रव्य मैत्र भैत्रेण वा। कारयति कटं चैत्र चैत्रेण वा ॥
दृश्यभिवदोरात्मने ॥ २।२।९॥ __ अतिकर्ता णौ वा कर्म ॥ दर्शयते राजा भृत्यान् भृत्यैर्वा । अभिवादयते गुरुः शिष्यं शिष्येण वा । आत्मने इति किम् ? । दर्शयति रूपतक कार्षापणम् ।. .