________________
( ८० )
श्रीलघुपमभाव्याकरणम्.
धानेन वा यद्विकारमापाद्यते तद्विकार्यम् । काष्ठं दहति । काण्डं लुनाति । यत्र तु क्रियाकृतो विशेषो नास्ति तत्प्राप्यम् । आदित्यं पश्यति । अस्य तु त्रिविधस्यापि अवान्तरव्यापारा निर्वृत्तिविकृत्याभासोपगमनानि । त्रिविधमप्येतत् त्रिविधम् । इष्टमनिष्टमनुभयं च । शिष्यं करोति । अहिं लङ्घयति । वृक्षच्छायां लङ्घयति । तत्कर्म द्विविधं प्रI धानेतरभेदात् । तच्च द्विकर्मकेषु दुहिभिक्षिरुधिप्रच्छिचिगव्रग्शास्वर्थेषु याचिजयतिप्रभृतिषु नीहृकृष्वहेषु च भवति । याचिरनुनयार्थस्तेन भियः । गां दोग्धि पयः । यदर्थं क्रियारभ्यते तत्प्रधानं तत्सिst यत्क्रियया व्याप्यते गवादि तदप्रधानम् । प्रधानाविवक्षायां गवादेरेव प्राधान्यम् । आश्चर्यो गवां दोहोऽगोपेन । तत्र दुहादीनामप्रधाने कर्मणि कर्मजः प्रत्ययो भवति । गौर्दह्यते पयो मैत्रेण । न्यादीनां तु प्रधाने कर्मणि । नीयते नीता वा ग्राममजा । गत्यर्थाना - मकर्मकाणां तु णिगन्तानामप्रधान एष कर्मणि । गम्यते मैत्रो ग्रामम् । आस्यते मासं मैत्रः । बोधाहारार्थशब्दकर्मकाणां तु णिगन्ताना शुभयत्र । बोध्यते शिष्यो धर्मम् । बोध्यते शिष्यं धर्म इति वा । भोज्यतेऽतिथिमोदनः । भोज्यतेऽतिथिरोदनम् । पाठ्यते शिष्यो ग्रन्थम् । पाठ्यते शिष्यं ग्रन्थ इति वा । सर्वत्र चोक्ते कारके प्रथमा । अभिधानं च प्रायेण त्यादिकृत्तद्धितसमासैः ॥
वाऽकर्मणामणिकर्ता णौ ॥ २ । २ । ४ ॥ कर्म || पाचयति चैत्र चैत्रेण वा । अत्राविवक्षितकर्माणो ग्राह्या उत्तरत्र नित्यग्रहणात् । गत्यर्थादीनां परत्वान्नित्य एव विधिः ॥ गतिबोधाहारार्थशब्दकर्मनित्याऽकर्मणामनीखाद्यदिहाशब्दायकन्दाम् || २ | २ | ५||
अणिगवस्थायां कर्त्ता णौ कर्म ॥ गमयति मैत्रं ग्रामम् । साप्तेरन्यत्र न भवति । स्त्रियं गमयति मैत्रेण चैत्रः । बोधयति