________________
कारकाणि....
( ७९ )
मणिअन्तानामन्तस्य स्त्रियां ष्यः ॥ क्रौड्या। चौपयत्या ॥
भोजसूतयोः क्षत्रियायुवत्योः ॥२।४। ८१ ॥ अन्तस्य स्त्रियां ष्यः । भोज्या । सूत्या ॥ ___ दैवयज्ञिशौचिवृक्षिसात्यमुनिकाण्ठेविद्धर्वा ॥ २ ।४। ८२ ॥
स्त्रियामन्तस्य ष्यः॥ दैवयज्ञी। दैवयझ्या । शौचिक्ष्या। शौचिक्षी। सात्यमुग्र्या। सात्यमुग्री । काण्ठेविद्धया । काण्ठेविद्धी॥
इति श्रीतपोगच्छाचार्यविजयदेवसूरिविजयसिंहमूरिपट्टपरम्पराप्रतिष्ठितगीतार्थत्वादिगुणोपेतद्धिचन्द्रापरनामवृद्धिविजयचरणकमलमिलिन्दायमानान्तेवासिसंविग्नशाखीयतपोगच्छाचार्यभट्टारकश्रीविजयनेमिमूरिविरचितायां लघुहेमप्रभायां स्रीमत्ययाः ॥
॥ अथ कारकाणि ॥
क्रियाहेतुः कारकम् ॥ २ । २।१॥ कर्नादि ॥
स्वतनः कर्ता ॥ २।२।२॥ क्रियाहेतुः क्रियासिद्धौ स्वप्रधानो यः स कर्चा ॥ देवदत्तः पचति । देवदत्तेन पाचयति चैत्रः ॥
कर्तृाप्यं कर्म ॥ २॥ २ ॥ ३॥ का क्रियया यद्विशेषेणाप्तुमिष्यते तत्कारकं व्याप्यं कर्मच स्यात् ।। तत्रेधा निर्वय॑ विकाथै प्राप्यं च । तत्र यदसज्जायते जन्मना वा प्रकाअयते तनिर्वय॑म् ।कटं करोति। पुत्र प्रसूते। प्रकृत्युच्छेदेन । गुणान्तरा