________________
(८२ )
श्रीलघुहेमप्रभाव्याकरणम्.
नाथः ॥ २।२।१०॥ आत्मनेपदविषयस्य व्याप्यं वा कर्म ॥ सर्पिषः सपिर्वा नायते । आत्मन इत्येव । पुत्रमुपनाथति पाठाय ॥
स्मृत्यर्थदयेशः ॥ २॥ २॥ ११ ॥ ___ व्याप्यं कर्म वा ॥ मातरं मातुर्वा स्मरति । सर्पिषः सपिर्वा दयते । लोकानां लोकान्वेष्टे ॥
कृगः प्रतियले ॥ २ । २ । १२ ॥ म्याप्यं कर्म वा । एधोदकस्योपस्कुरुते, एधोदकं वा ।। रुजाऽर्थस्याऽज्वरिसन्तापेर्भावे कर्तरि ॥ २ ॥ २ ॥१३॥ ___ व्याप्यं वा कर्म ॥ चौरस्य चौरं वा रुजति रोगः। अज्वरिसन्तापेरिति किम् ? । आयूनं ज्वरयति सन्तापयति वा रोगः । भावे कर्तरीति किम् ? । मैत्रं रुजति श्लेष्मा ॥
जासताटक्राथपिषो हिंसायाम् ॥ २। २ । १४ ॥ __ व्याप कर्म वा ॥ चौरस्य चौरं वोजासयति । चौरस्य चौरं वा वोनाटयति । चौरस्योत्क्राथयति । चौरमुत्क्रययति । चौरस्य चौर वा पिनष्टि। आकारोपान्त्यनिर्देशादाकारश्रुतापेदेदम् । तेन दस्युमुदजीजसत् । अत एव क्रायः कर्माभावे इस्वत्वाभावः। हिंसायामिति किम् ?। चौरं बन्धनाजासयति॥
निप्रेभ्यो नः॥ २ । २ । १५ ॥ हिंसार्थस्य व्याप्यं कर्म वा ॥ बहुवचनं समस्तव्यस्तविपर्यस्तपरिग्रहार्थम् । चौरस्य चौरं वा निहन्ति । निहन्ति । प्रहन्ति । प्रणिहन्ति । हिंसायामित्येव । रागादीनिहन्ति । विनिमेययतपणं पणव्यवहोः ॥ २ । २ । १६ ॥