________________
श्रीमत्ययाः ।
बरात् पक्कावपनस्थूलाकृत्रिमामत्रकृष्णायसीरिरंसुश्रो
णिकेशपाशे ॥ २ । ४ । ३० ॥
स्त्रियां नाम्नि ङीः ॥ भाजी पक्का चेत् । भांजान्या । गोणी आवपनम् । गोणान्या । नागी स्थूला । नागान्या । स्थली अकृत्रिमा । स्थलान्या । कुण्डी अमत्रम् । कुण्डान्या । काली कृष्णा । कालान्या । कुशी आयसी । कुशान्या । कामुकी रिरंसुः । कामुकान्या । कटी श्रोणिः । कटान्या । कबरी केशपाशः । कबरान्या । जातौ तु नाभ्येव तस्याः स्थौल्याभावात् । अमृते जारजः कुण्ड इति जातिवचनात् कुण्डशब्दाज्जातिलक्षणो ङीर्भवत्येव । जानपदशब्दादपि वृत्ताविच्छत्यन्यः । जानपदी वृत्तिः । अन्यत्र जानपदा मदिरा ॥ नवा शोणादेः ॥ २ । ४ । ३१ ।।
स्त्रियां ङीः ॥ शोणी । शोणा । बह्री । बहुः ।
1
इतोऽत्यर्थात् ॥ २ । ४ । ३२ ॥
नाम्नः स्त्रियां ङीव ॥ भूमी । भूमिः । अत्यर्थादिति किम् ? । कृतिः । अजननिः ॥
पद्धतेः || २ । ४ । ३३ ॥
( ७२ )
स्त्रियां ङीर्वा ॥ पद्धती । पद्धतिः ॥
शक्तेः शस्त्रे ॥ २ । ४ । ३४ ॥ स्त्रियां ङीव । शक्ती । शक्तिः ॥
स्वरादुतो गुणादखरोः ॥ २ । ४ । ३५ ॥
नाम्नः स्त्रियां ङीर्वा ॥ पट्वी । पदुः । स्वरात् किम ? | पाण्डुर्भूमिः । अखरोरिति किम् ? | खरुः ॥ श्येर्ततहरितभरतरोहिताद्वर्णात्तो नश्च ॥ २ | ४ | ३६ ॥