________________
(६२)
श्रीलघुहेमममाव्याकरणम्.
चाहहवैवयोगे ॥ २।१ । २९ ॥ पदात् परयोयुष्मदस्मदोर्न वस्त्रसादिः॥ ज्ञानं युष्मांश्च रक्षतु । एवम्, अह-ह-वैवैरप्युदाहार्यम्, योगग्रहणं साक्षाद्योगपतिपत्यर्थम् । तेन बानं च शीलं च मे स्वमित्यादि सिद्धम् ॥
दृश्यथैश्चिन्तायाम् ॥ २।१ । ३० ॥ धातुभिर्योगे युष्मदस्मदोवस्नसादिर्न ॥ जनो युष्मान् सदृश्यागतः। जनो मामपेक्षते । दृश्यर्थै रिति किम् ? । जनो वो मन्यते । चिन्तायामिति किम् ?। जनो वः पश्यति ॥
नित्यमन्वादेशे ॥ २ । १ । ३१ ॥ पदात् परयोर्युष्मदस्मदोर्वस्नसादिः ॥ यूयं विनीतास्तद्वो गुरवो मानयन्ति । इत्यादि ॥
सपूर्वात् प्रथमान्ताहा ॥२।१। ३२ ॥
पदात्परयोर्युष्मदस्मदोर्वस्नसादिः॥ यूयं विनीतास्तद् गुरवो वो युष्मान् वा मानयन्ति । इत्यादि । गम्येऽप्यन्वादेशे भवति । ग्रामे कम्बलो वो युष्माकं वा स्वमथो । विद्यमानपूर्वादिति किम् ? । पटो युष्माकं स्वम् अथो वः कम्बलः स्वम् ॥
. इति श्रीतपोगच्छाचार्य विजयदेवमूरिविजयसिंहमुरिपट्टपरम्पराप्रतिष्ठितगीतार्थत्वादिगुणोपेतवृद्धिचन्द्रापरनामवृद्धिविजयचरणकमलमिलिन्दायमानान्तेवासिसंविग्नशाखीयतपोगच्छाचार्यश्रीविजयनेमिसूरिविरचितायां लघुहेमप्रभायां युष्मदस्मत्प्रक्रिया ।।
॥ अथाव्ययानि ॥
स्वरादयोऽव्ययम् ॥ १।१ । ३०॥