________________
( ६० )
श्रीकरणम्.
मजतियुक्त् २ | स्यात् २ । अतितम । अतिमम । अतिनुक्योः २ । अत्यावयोः २ । अतियुवाकम् । अत्यावाकम् । अतियुवयि । अत्मावयि । अतियुङ्गासु । अत्यावासु । सुष्मानस्माम्वातिक्रान्तः । अतित्वम् । अत्यहम् । अतियुष्माम् ३ । अत्यस्माम् ३ । अतियूयम् । अक्वियम् । अतियुष्मान् । अत्यस्मान् । अतियुष्मया । अत्यस्मया । अतियुष्माभ्याम् ३ । अत्यस्माभ्याम् ३ । अतियुष्माभिः । अत्यस्माभि: । अतितुभ्यम् । अतिमह्यम् । अतियुष्मभ्यम् । अत्यस्मभ्यम् । अतियुष्मत् २ । अत्यस्मत् २ । अतितव । अतिमम । अतियुष्मयोः २ । अत्यस्मयोः २। अतियुष्माकम् । अत्यस्माकम् । अतियुष्मयि । अत्यस्मयि । अतियुष्मासु । अत्यस्मा || पदायुविभक्त्यैकवाक्ये वस्त्रसौ बहुत्वे || २ | १ | २१ ॥
युष्मदस्मदोः ॥ अन्वादेशे नित्यं विधानादिह विकल्पः । धर्मो वो रक्षतु । धर्मो नो रक्षतु । युष्मानस्मान् वा तपो वो दीयते । तपो नो दीयते । युष्मभ्यमस्मभ्यं वा । शीलं वः स्वम् । शीलं नः स्वम् । युष्माकमस्माकं वा । पदादिति किम् ? | युष्मान् धर्मो रक्षतु । एकवाक्ये इति किम् ? । अतियुष्मान् पश्यति || ओदनं पचत युष्माकं भविष्यति ।
द्वित्वे वानौ ॥ २ । १ । २२ ॥
- पदात् परयोर्युष्मदस्मदोरेकवाक्ये || धर्मो वां युवां वा नौ आवां वा रक्षतु । एवं चतुर्थोषष्ठीभ्यामपि ।
ङेङसा तेमे ॥ २ । १ । २३ ॥
दी
पदात्परयोर्युष्मदस्मदोरेकवाक्ये ।। धर्मस्ते दीयते । धर्मो मे द युते । तुभ्यं मह्यं वा । धर्मस्ते स्वम् । धर्मो मे स्वम् । तव मम वा ॥ अमा त्वामा ॥ २ । १ । २४ ॥