________________
( ३४ )
श्रीलघुहेमप्रभाब्याकरणम्.
डिडौँ।। १।४।२५ ॥ इदुतः॥
डित्यन्त्यस्वरादेः ॥२।१ । ११४ ॥ लुक् । व्पपदेशिवदेकस्मिन् । मुनौ । अदिदित्येव । बुद्धयाम् ॥
हस्वस्य गुणः ॥ १।४ । ४१ ॥ आमन्त्र्यार्थवृत्तेः सिना सह । हे मुने । अतिस्विः ॥
स्त्रियाः ॥२।१। ५४ ॥ इवर्णस्य स्वरादौ प्रत्यये इय् । अतिस्त्रियौ । अतिस्त्रयः ।।
वाऽमशसि ॥ २॥ १। ५५॥ स्त्रिया इय् । अतिस्त्रियम्। अतिस्निम्। अतिस्त्रियः। अतिस्त्रीन्। अतिस्त्रियै । अतिस्त्रये । स्त्रिया ङितामिति वा दैः। अतिस्त्रियाः । अतिनेः। अतिस्त्रियोः । अतिस्त्रीणाम् । अतिस्त्रियाम् । अतिस्त्रौ । शेष मुनिवत् ॥
ऋदुशनस्पुरुदंशोऽनेहसश्च सेहः॥ १। ४ । ८४ ॥ सख्युरितः शेषस्य । सखा । प्रियसखा ॥
सख्युरितोऽशावेत् ॥ १।४। ८३ ।।
शेषे घुटि । सखायौ । प्रियसखायौ । अशाविति किम् ?। अतिसखीनि कुलानि । इतः किम् ? । सख्यौ॥
न नाङिदेत् ॥ १। ४ । २७ ॥ केवलसखिपतेः । सख्या । सख्ये । केवलेति किम् ? । प्रियसखिना । प्रियसखये ॥
खितिखीतीय उर् ॥ १।४ । ३६ ॥ इसिङसोः। सख्युः २ । य इति किम् ? । प्रियसखेः । खि