________________
स्वरान्ताः पुंल्लिङ्गाः
तीत्यादि किम् ? | मुख्यः । अपत्यः ॥ केवलसखिपतेरौः ॥ १ । ४ । २६ ॥
इदुदन्तात् ङः । सख्यौ । केवलेति किम् ? । प्रियसखौ । सखीमतिक्रान्तोऽतिसखिः । मुनिवत् । पतिः । पत्या ॥
डत्यतु संख्यावत् ॥ १ । १ । ३९ ।। डतिष्णः संख्याया लुप् ॥ १ । ४ । ५४ ॥ जशूशसोः । कति २ । तत्सम्बन्धिनोरित्येव । प्रियकतयः । प्रियकतीन् ॥ लुप्यय्वृल्लेत् ॥ ७ । ४ । ११२ ॥
परप्रत्ययस्य लुब्भूतपरनिमित्तकं पूर्वकार्य न । इति निषेधानेकारः । लुपीति किम् ? । गोमान् । " नन्ता संख्या डतिर्युष्मदस्मच्च स्युरलिङ्गकाः । " एवं यतिततिशब्दौ ॥
( ३५ )
त्रेस्त्रयः ।। १ । ४ । ३४ ॥
आमः । त्रयाणाम् । तत्सम्बन्धिविज्ञानात् प्रियत्रीणाम् ॥ आह्वेरः ॥ २ । १ । ४१ ॥
त्यदादेः स्वसम्बन्धिनि स्यादौ तसादौ च ॥ द्वौ २ ॥ द्वाभ्याम् ३ । द्वयोः २ । अतिद्विर्मुनिवत् । उडुलोम्नोऽपत्यं पुमान् औडुलोमिः । एकत्वे द्वित्वे च मुनिवत् । बहुत्वेऽप्रत्यये उडुलोमशब्दो देववत् । उडुलोमाः । रविकविप्रमुखा मुनिवत् । वातं प्रमिमीते वातप्रमीः । वातम्यौ | वातप्रम्यः । वातप्रमीम् । वातप्रमीन् । वातप्रमी । एवंययीपप्यादयः । क्किबन्ते तु अमि शसि ङौ च विशेषः । किबट्टत्तेरिति यत्वम् । वातप्रम्यम् । वातप्रम्यः । वातमयि ॥
दीर्घङधाब्व्यञ्जनात्सेः ॥ १ । ४ । ४६ ॥
लुक् || बहुश्रेयसी । दीर्घेति किम् ? । निष्कौशाम्बिः । अतिखट्वः ॥