________________
स्वरान्ताः पुंल्लिङ्गाः
(३१)
सर्वादेः स्मैस्मातौ ॥ १। ४ । ७॥ अदन्तस्य डेडस्योः ॥ सर्वस्मै । सर्वस्मात् ॥
अवर्णस्यामः साम् ॥ १। ४ । १५ ॥ सर्वादेः ॥ सर्वेषाम् ॥
स्मिन् ॥ १।४।८॥ सर्वादेरदन्तस्य ॥ सर्वस्मिन् । शेषं देववत् । तत्सम्बन्धिविज्ञानात् , अतिसर्वा इत्यादि। एवं विश्वादयः । उभ-वत्-द्वि-युष्मद्भवत्वस्मदा हेत्वर्थप्रयोगे सर्वविभक्त्यादयः प्रयोजनं गणपाठे ॥
नवभ्यः पूर्वेभ्य इस्मास्मिन् वा ॥१॥४॥१६॥
अदन्तेभ्यो जस्ङसिङीनाम् ॥ पूर्वे । पूर्वाः। पूर्वस्मात् । पूर्वात् । पूर्वस्मिन् । पूर्वे । एवं परादयः ॥ ....
न सर्वादिः ॥ १।४ । १२ ॥ द्वन्द्वे सर्वादिः॥ पूर्वापरात्। पूर्वापरे। कतरकतमानाम् । कतरकतमकाः॥
हन्दे वा ॥ १।४।११ ॥ अदन्तस्य सर्वादेर्जस इः ॥ पूर्वापरे । पूर्वापराः । शेषं देववत् ॥ . तृतीयान्तात् पूर्वावरं योगे ॥ १। ४ । १३ ॥
__ सर्वादि न ॥ मासेन पूर्वाय । मासपूर्वाय । दिनेनावराय । दिनावराय। योगे किम्?। यास्यति चैत्रो मासेन । पूर्वस्मै दीयतां कम्बलः॥
तीयं ङित्कार्ये वा ॥ १।४ । १४॥ सर्वादिः ॥ द्वितीयस्मै । द्वितीयायेत्यादि । शेषं देववत् ॥