________________
( २८ )
श्रीलघुहेमप्रभाव्याकरणम्.
vvvvvvvvvvvvvvvvvv
स एष भरतो राजा ॥
एतदश्च व्यञ्जनेऽनग्नसमासे ॥ १।३। ४६ ॥ . तदः सेलृक् ॥ एष दत्ते । स लाति । अनग्नसमासे किम् । एषकः कती । सको याति । अनेषो याति । असो वाति। संहितैकपदे नित्या नित्या धातूपसर्गयोः। नित्या समासे वाक्ये तु सा विवक्षामपेक्षते ॥ १॥ ___ इति श्रीतपोगच्छाचार्यविजयदेवमूरिविजयसिंहमूरिपडपरम्पराप्रतिष्ठितगीतार्थत्वादिगुणोपेतद्धिचन्द्रापरनामद्धिविजयचरणकमलमिलिन्दायमानान्तवासिसंविग्नशाखीयतपोच्छाचार्यभट्टारकश्रीविजयनेमिसूरिविरचितायां लघुहेमप्रभायां स्यादिसन्धिः ॥
॥ अथ स्वरान्ताः पुंल्लिङ्गाः ॥
अधातुविभक्तिवाक्यमर्थवन्नाम ॥ १।१ । २७ ॥ देवः ॥
समानामथेनैकः शेषः॥३।१। ११८॥ सहोक्तो गम्यायाम् ॥
स्यादावसंख्येयः ॥३।१ । ११९ ॥ सर्वस्मिन् तुल्यरूपाणां सहोक्तावेकः शिष्यते ॥ देवौ २ ॥
अत आः स्यादौ जस्भ्यां ये ॥ १।४।१॥ देवाः ॥