________________
(३०४)
श्रीलघुहेमनभाव्याकरणम्.
इति श्रीतपोगच्छाचार्यविजयदेवसरिविजयसिंहमूरिपपरम्पराप्रतिष्ठितगीतार्थत्वादिगुणोपेतद्धिचन्द्रापरनामद्धिविजयचरणकमलमिलिन्दायमानान्तेवासिसंविग्नशाखीयतपोगच्छाचार्यभट्टारकश्रीविजयनेमिमूरिविरचितायां लघुहेमप्रभायां
तद्वितप्रकरणम् ॥
अथ द्विरुक्तप्रक्रिया असकृत्सम्भ्रमे ॥ ७। ४ । ७२ ।। पदं वाक्यं वा प्रयुज्यते ॥ अहिरहिः। बुध्यस्व बुध्वस्व । अहिरहिरहिः । बुध्यस्व बुध्यस्व बुध्यस्व । हस्त्यागच्छति हस्त्याच्छति । लघु पलायध्वम् लघु पलायध्वम् ॥
नानावधारणे ॥ ७।४ । ७४ ॥ नानाभूतानामियत्तापरिच्छेदे गम्ये शब्दो दिः। अस्मात्कापषिणादिह भवद्भयां माई मापं देहि ॥
आधिक्यानुपूष्ये ॥ ७ । ४ । ७५ ॥ द्विः । नमो नमः । मूले२ स्थूलाः ॥ डतरडतमौ समानां स्त्रीभावप्रश्ने ॥७।४। ७६ ।।
द्विः । उभाषिमावाढयौ । कतरा कतरा अनयोराढ्यता। कतमा कतमा एपामाव्यता । भावेति किम् ? । उमाविमौ लक्ष्मीवन्तौ । कतरानयोलक्ष्मीः॥
पूर्वप्रथमावन्यतोऽतिशये ।। ७।४।७७॥ स्वार्थस्य द्योत्ये द्विः । पूर्व पूर्व पुष्यन्ति । प्रथमं प्रथमं पच्यन्ते ।।
प्रोपोत्सं पादपूरणे ॥ ७ । ४ । ७८ ॥