________________
ततिप्रकरणम.
( ३०३)
तदर्थात्स्वार्थे यो द्रिः । कापोतपाक्यः । अस्त्रियामिति किम् ? | कपोतपाका ||
शस्त्रजीविसंघाय वा ।। ७ । ३ । ६२ ॥
स्वार्थे स च द्रिः । शाबर्यः । शबराः । पुलिन्दाः । पक्षे शबरः । सङ्गादिति किम् ? । वागुरः ॥
वाहीकेष्वब्राह्मणराजन्येभ्यः ॥ ७ । ३ । ६३ ॥ शस्त्रजीविसंघवाचिनः स्वार्थे ञ्यट् स च द्रिः ॥ कौण्डीविश्याः । कुण्डीविशाः । अब्रह्मणेत्यादिति किम् ? | गौपालिः । राजन्यः ॥ वृकाण्यण् ॥ ७ । ३ । ६४ ॥
शस्त्रजीविसंघवाचिनः स्वार्थे स च द्रिः । वार्केण्यः । दृकाः । यौधेयादेरञ् ॥ ७ । ३ । ६५ ॥
शस्त्रजीविसङ्घार्थाद् द्रिः । यौधेयः । घर्त्तियः ॥
पर्श्वादरेण ॥ ७ । ३ | ६६ ॥ शत्रजीविसङ्घार्थात स्वार्थे द्रिः ॥ पार्शवः । राक्षसः ॥ दामन्यादेरीयः ॥ ७ । ३ | ६७ ॥ शस्त्रजीवितार्थाद् द्रिः । दामनीयः । औलपीयः ॥ श्रमच्छमीवच्छिखावच्छालावदूर्णावद्विद
भृभिजितो गोत्रे ऽणो यञ् ।। ७ । ३ । ६८ ॥
स्वार्थे द्रिः । श्रमत्यः । शामीवत्यः । शैखावत्यः । शालावत्यः । और्णावत्यः । वैदभृत्यः । आभिजित्यः ॥
॥ इति स्वार्थिकाः ॥