________________
-~
~
( ३०२) श्रीलघुहेमभाव्याकरणम्.
बहूनां प्रश्ने डतमश्च वा ॥७।३। ५४॥
यदादिभ्यो निर्धाये डतरः। यतमो यतरो वा भवतां कठस्ततमस्ततरो वा यातु । एवं कतमः । कतरः । अन्यतमः। अन्यतरः । पक्षे यको यो वा । सकः स वा भवतां कठ इत्यादि ।
वैकात् ॥ ७।३। ५५ ॥ बहूनाभेकस्मिन्निर्धा ये डतमः । एकतमः । एककः। एको वा भवतां कठः ॥
क्तात्तमबादेश्चानत्यन्ते ॥ ७।३। ५६ ॥ कप् ॥ अनत्यन्तं भिन्न भिन्नकम् । भिन्नतमकम् । भिन्नतरकम् ॥
न सामिवचने ॥ ७।३। ५७॥ उपपदेऽनन्त्यन्तार्थात् क्तान्तात् केवलात्तमबाद्यन्ताच्च कप । सामि अनत्यन्तं भिन्नम् । अर्धमनत्यन्तं भिन्नम् ।।
नित्यं अजिनोऽण ॥७।३। ५८ ॥ स्वार्थ । व्यावक्रोशी । साकोटिनम् ॥
विसारिणो मत्स्ये ॥७।३। ५९ ॥ स्वार्थेऽण् । वैसारिणो मत्स्यः ॥
पूगादमुख्यकायो द्रिः ।। ७।३।६०॥
नानाजातीया अनियतवृत्तयोऽर्थकामप्रधानाः संघाः पूगाः । तद्वाचिनो नाम्नः स्वार्थे ज्यः स चद्रिसंज्ञः, न चेत्पूगार्थ मुख्यार्थकान्तम । लौहध्वज्यः । लोहध्वजाः पूगाः। अमुख्यकादिति किम् ? देवदत्तकः पूगः ॥
वातादस्त्रियाम् ॥ ७ । ३।६१ ।। नानाजातीया अनियतवृत्तयः शरीरायासजीविनः संघा वाताः,