________________
- -vvvvvvvvvvvvvvvvvvvvvvvvvvvvarthvvvUJYAKAJAUNAVAIAvvvvvvvvv
नाम्नः । पचतिरूपम् । पण्डितरूपः॥
अतमबादेरीषदसमाप्ते कल्पप्
देश्यप् देशीयर् ॥७।३।११॥ त्याद्यन्तानाम्नश्च । पचतिकल्पम् । पचतिदेश्यम् । पचतिदेशीयम् । पटुकल्पा । पटुदेश्या । पटुदेशीया ॥
नाम्नः प्राग्बहुर्वा ॥ ७।३।१२॥ ईषदसमाप्ते ॥ बहुपटुः । पटुकल्पः ॥
न तमवादिः कपोऽच्छिन्नादिभ्यः ॥ ७।३।१३॥ __ अयमेषामनयोर्वा प्रकृष्टः पटुकः । अच्छिन्नादिभ्य इति किम् ?। छिन्नकतमः ॥
अनत्यन्ते ॥७।३।१४।। कबन्तात्तमवादिन । इदमेषामनयोर्वा प्रकृष्टं छिनकम् । भिन्नकम् ॥
यावादिभ्यः कः ॥ ७।३ । १५॥ स्वार्थे । यावकः । मणिकः ॥
कुमारीक्रीडनेयसोः ॥ ७।३। १६ ॥ स्वार्थ कः । कन्दुकः । श्रेयस्कः॥
लोहितान्मणौ ॥७।३ । १८॥ स्वार्थे को वा । लोहितकः । लोहितो मणिः ॥
रक्ताऽनित्यवर्णयोः॥ ७।३। १८ ॥ लोहितात् को वा । लोहितकः पटः । लोहितकमक्षि कोपेन ॥
कालात् ॥ ७।३। १९ ॥ कजलादिरक्तेऽनित्यवर्णे च वर्तमानात् को वा। कालका परः । कालकं मुखं वैलक्ष्येण ॥