________________
शीतोष्णादृतौ ॥ ७ । ३ । २० ॥
वर्त्तमानात् को वा । शीतक ऋतुः । उष्णक ऋतुः ॥ लनवियतात्पशौ ॥ ७ । ३ । २१ ॥ को वा । लूनकः । वियातकः पशुः ||
स्नादसमाप्तौ ॥ ७ । ३ ।. २२ ॥ गम्यायां कः । वेदं समाप्य स्त्रातः स्नातकः ॥
तनुपुत्राणुवृहतीशून्यात् सूत्रकृत्रिमनिपुणाच्छादन रिक्ते ॥ ७ । ३ । २३ ॥ यथासङ्ख्यं कः । तनुकं सूत्रम् । पुत्रकः कृत्रिमः । अणुको निपुणः । वृहतिका आच्छादनविशेषः । शून्यको रिक्तः ॥ भागेऽष्ठमाञ्ञः ॥ ७ । ३ । २४ ॥
वा | आष्टमो भागः ॥
॥ षष्ठात् ॥ ७ । ३ । २५ ॥
भागे जो वा ॥ षाष्ठो भागः ॥
माने कश्च ॥ ७ । ३ । २८ ॥ भागे षष्ठाज् ञो वा । षष्ठकः षाष्टो भागः मानं चेत् ॥ एकादाकिन चासहाये ॥ ७ ॥ ३ ॥ २७ ॥ कः । एकाकी । एककः ॥
प्राग्नित्यात्कप् ॥ ७ । ३ । २८ ॥
नित्यशब्दसङ्कीर्त्तनात्प्राग्येऽर्थास्तेषु द्योत्येषु कबधिकृतो ज्ञेयः । कुत्सितोऽल्पोऽज्ञातो वाऽश्वः अश्वकः ॥
त्यादिसर्वादेः स्वरेष्वन्त्यात्पूर्वोऽक् ।। ७ । ३ । २९ ।।