________________
wwwvvvvvvvvNNN
(२९४) तत्सन्दिष्टं कर्म । कार्मणं करोति ॥
' वाच इकण ।। ७ । २ । १६८ ॥ सन्दिष्टे । वाचिकं वक्ति ॥
विनयादिभ्यः ॥७।२। १६९ ।। स्वार्थ इकण वा । वैनयिकम् । सामयिकम् ॥
उपायाद् हस्वश्च ॥ ७ । २ । १७० ॥ स्वार्थ इकण वा । औपयिकम् ॥
मृदस्तिकः ॥ ७।२। १७१ ॥ स्वार्थ वा ॥ मृत्तिका । मृत् ॥
सस्नो प्रशस्ते ॥ ७ । २ । १७२ ॥ मृदो वा । मृत्सा । मृत्स्ना ॥
प्रकृते मयट् ।। ७।३।१।। स्वार्थे । प्राचुर्येण प्राधान्येन वा कृतं प्रकृतम् । अन्नमयम् । पूजामयम् ॥
अस्मिन् ॥ ७।३।२॥ प्रकृतार्थान्मयट् । अन्नमयं भोजनम् ॥
तयोः समूहवच्च बहुषु ।। ७ । ३।३॥
प्रकृतेऽस्मिन् इत्येतयोविवययोमयट् । आपूपिकम् । अपूपम यम् । अपूपास्तत्पर्व वा ॥
निन्ये पाशप् ॥ ७।३।४॥ स्वार्थे ॥ वैयाकरणपाशः ॥
प्रकृष्टे तमप् ॥ ७।३। ५॥