________________
१८३)
सम्भवद्विभक्त्यन्तात्किमद्ध्यादिसर्वार्थवैपुल्यवहोः । सर्वथा । अन्यथा ॥ कथमित्थम् ॥७॥२॥ १०३ ॥
एतौ प्रकारे निपात्यौ ॥ किमस्यापवादस्थम् । कथम् । इदम एतदो वा थम् इदादेशश्च । इत्थम् ॥ -
सङ्ख्याया धा ॥ ७२ ॥ १०४ ॥
1
प्रकारे । एकधा । द्विधा । कतिधा ॥ विचाले च ॥ ७ । २ । १०५ ॥
एकस्यानेकीभावो ऽनेकस्य चकीभावो विचालः । तस्मिन् गम्ये सङ्ख्याया धा वा । एको राशिद्वौं द्विधा वा क्रियते । अनेकमेकमेकधा वा करोति ॥
वैकाद्धयमञ् ॥ ७ । २ । १०६ ।।
सङ्ख्यार्यात्मकारवृत्तेर्विचाले च गम्ये । ऐकध्यम् एकधा वा भुङ्क्ते । अनेकमेकं करोति ऐकध्यम् एकधा वा करोति ॥ द्वित्रेर्धमधौ वा ॥ ७।२ । १०७॥
प्रकारार्थाद्विचाले च गम्ये । द्वैधम् । त्रैधम् । द्वेधा । त्रेधा । द्विधा त्रिधा भुङ्क्ते । एकराशि द्वौ करोति द्वैवम् त्रैधम् द्वेषा त्रेधा द्विधा त्रिधा करोति ॥
तइति धण ।। ७ । २ । १०८ ॥
द्वित्रिभ्याम् । द्वैधानि । त्रैधानि ॥
वारे कृत्वस् ।। ७ । २ । १०९ ।।
वारो धात्वर्थस्यायौगपद्येन वृत्तिः तत्कालो वा । तद्वृतेः सचार्याद्वारवति धात्वर्थे कृत्वस् । पञ्चकृत्वो शुक्ते ॥ द्वित्रिचतुरः सुच् ॥ ७ । २ । ११० ॥