________________
(3)
किंवलर्वेकान्यात्का वा ॥ ७९ ॥ ९५ ॥ सप्तम्यन्तात्: । कस्मिन् काले कदा | यदा तदा । सर्वदा ।
अन्यदा ||
सदाऽधुनेदानीतदानीमेतर्हि ॥ ७ । २ । ९६ ॥ पते काले वाच्ये निपात्यन्ते । सर्वशब्दाद्दामत्ययः सभावश्चास्य । सर्वस्मिन् काले सदा । इदमोऽधुना प्रत्ययोऽकारादेशय । अस्मिन् कालेऽधुना । इदमो दानीं प्रत्यय इकारादेशथ । इदानीम् । तदो दानीम प्रत्ययः । तदानीम् । इदमो हिंः एतादेशश्च । एतहिं ॥ सद्योऽद्यपरेद्यव्यहि ॥ ७ । २ । ९७ ॥
एवेऽहि काले निपात्याः । समानेऽहि सद्यः । अस्मिन्नहनि अद्य । परस्मिन्नहनि परेद्यवि ॥ पूर्वापराधरोत्तरान्यान्यतरेतरादेद्युस् ॥ ७ । २ । ९८ ॥
अहि काले । पूर्वस्मिन्नहनि पूर्वेद्युः । अपरेद्युः । अधरेयुः । उत्तरेद्युः । अन्येद्युः । अन्यतरेद्युः । इतरेद्युः ||
उभयाद् द्युश्च ।। ७ । २ । ९९ ॥
एद्युस् अह्नि । उभयद्युः । उभयेद्युः ॥
ऐषमः परुत्परारि वर्षे ॥ ७ । २ । १०० ।।
निपात्यते । अस्मिन् संवत्सरे ऐषमः । पूर्वस्मिन् परस्मिन् वा संवत्सरे परूत् । पूर्वतरे परतरे वा संवत्सरे परारि ॥
अनद्यतने र्हिः ॥ ७ । २ । १०१ ॥
सप्तम्यन्वात्काळे वर्त्तमानाद्ययासम्भवं किमयादिसर्वाद्यवैपुल्यंबहोः कस्मिन्ननद्यतने काले कहिं । ग्रहि । तर्हि । बहुहिं ॥ । । प्रकारे था ॥ ७ । २ । १०२ ॥