________________
(२७१)
-
-
~
-
-
wom
मत्वर्थ अः स्यात् ॥ अभ्रं नमः । अर्शसो मैत्रः ॥ अस्तपोमायामेधास्त्रजो विन् ॥७॥२॥४७॥
मत्वर्थे । यशस्वी । यशस्वान्। तपस्वी। मायावी। मायावान् । मेधावी । स्रग्वी । ज्योत्स्नाद्यणा बाधो मा भूदिति तपोग्रहणम् ॥
आमयादीर्घश्च ॥७॥२॥४८॥ मत्वर्थे विन् । आमयावी । आमयवान् ॥
स्वामिन्नीशे ॥७।२।४९॥ स्वशब्दान्मत्वर्थे मिन् दीर्घश्चास्य निपात्यते । स्वमस्यातीति स्वामी ॥
· गोः॥७।२। ५०॥ मत्वर्थे मिन् स्यात् ॥ गोमी । गोमान् ॥
ऊर्जा विन्वलावश्चान्तः ॥७।२१५१ ॥ मत्वर्थे । ऊर्जस्वी । ऊर्जस्वलः । ऊर्वान् ॥
तमिस्रार्णवज्योत्स्नाः ॥ ७ । २ । ५२॥ ___ एते मत्वर्थे निपात्याः। तमिस्त्रा रात्रिः। तमः शन्दाद्र उपान्त्यस्येत्वं च निपात्यते। तमिस्राणि गुहामुखानि । मतुश्च । तमस्वान् । अर्णसो वः प्रत्ययोऽन्त्यलोपथ। अर्णवः। ज्योतिश्शब्दान्न पान्त्यलोपश्च । ज्योत्स्ना चन्द्रप्रभा ॥
गुणादिभ्यो यः॥७।२ । ५३॥ मत्वर्ये गुण्यो ना। हिम्यो गिरिः । हिमवान् ॥ रूपात् प्रशस्ताहतात् ॥७॥२॥ ५४॥
प्रशस्तोपाधेराहतोपाधेश्च रूपान्मत्वथै यः । रूप्यो गौः। रूप्यं कार्षापणम् । रूपवानन्यः ॥
पूर्णमासोऽण् ॥७।२ । ५५॥