________________
(२७८)
श्रीलघुहेमप्रभाव्याकरणम्
तावान् । शर्करिलः । शार्करो देशः ॥
युद्रोर्मः ॥ ७।२। ३७ ॥ मत्वर्थे । घुमः । द्रुमः ॥
काण्डाण्डभाण्डादीरः॥७।२।३८॥ मत्वर्थे । काण्डीरः । काण्डवान् । आण्डीरः । भाण्डीरः ॥
कच्छ्वा डुरः ॥ ७।२।३९॥ मत्वर्थे । कच्छुरः । कच्छ्रमान् ॥
दन्तादुन्नतात् ॥७।२।४०॥ उन्नत्युपाधेर्दन्ताड्डरो मत्वर्थे । दन्तुरः । उन्नतादिति किम् ? । दन्तवान् ॥
मेधारथानवेरः॥७।२।४१॥ __मत्वर्थे । मेधिरः । मेधावान् । पक्षे वक्ष्यमाणो चिन् । मेधावी। रथिरः । रथिकः । रथी॥
कृपाहृदयादालुः॥७।२।४२॥ मत्वर्थे । कृपालुः । हृदयालुः । हृदयी ॥
केशाहः ॥७।२।४३॥ मत्वर्थे वा ॥ केशवः । केशवान् । केशी ॥
मण्यादिभ्यः ॥ ७ । २।४४॥ मत्वर्थ वः । मणिवः । हिरण्यवः। मणिमान् ॥
हीनात्स्वाङ्गादः॥७।२१४५॥ मत्वर्थे । कर्णः । हीनादिति किम् ? कर्णवान् ॥
अभ्रादिभ्यः ॥७।२।४६॥