________________
(२७७)
दीर्घः । कृषीवलः कुटुम्बी । कृषिगत् क्षेत्रम् | आमुतीवलः कल्यपालः । आसुतिमान् । अपित्रादेरिति किम् । पितृवलः । मातृवलः ॥
लोमपिच्छादेः शेलम् ॥ ७ । २ । २८ ॥ मत्वर्थे यथासङ्ख्यम् । लोमशः । लोमवान् । गिरिशः । पिच्छिलः । पिच्छवान् । उरसिलः ॥
नोऽङ्गादेः ॥ ७ । २ । २९ ॥ मत्वर्थे । अङ्गना चार्वङ्गी स्त्री । पामनः । पामवान् ॥ शाकीपलालीदवा ह्रस्वश्च ॥ ७ । २ । ३० ॥ मत्वर्थे नश्च । शाकिनः । शाकीमान् । पलालिनः । दद्वणः ॥ विष्वचो विषुश्च ॥ ७ । २ । ३१ । मत्वर्थे नः ॥ विषुणः रविर्वायुर्वा । विष्वग्वान् ॥ लक्ष्म्या अनः ॥ ७ । २ । ३२ ॥
मत्वर्थे । लक्ष्मणः । लक्ष्मीवान् ॥
प्रज्ञाश्रद्धाचवृत्तेर्णः ॥ ७ । २ । ३३ ॥
मत्वर्थे । प्राज्ञः । प्रज्ञावान् । श्राद्धः । श्रद्धावान् । आर्थः । अचा॑वान् । बार्त्तः । वृत्तिमान् ॥
ज्योत्स्नादिभ्योऽण् ॥ ७ । २ । ३४ ॥
मत्वर्थे । ज्योत्स्नी रात्रिः । तामिस्त्री ॥ सिकताशर्करात् ॥ ७ । २ । ३५ ॥
मत्वर्थे णः । सैकतः । सिकताबान् । शार्करः || इलश्च देशे ॥ ७ । २ । ३६ ॥ सिकताशर्कराभ्यां मत्वर्थे णः । सिकतिलः । सैकतः । सिक