________________
ब्रीह्यर्थतुन्दादेरिलश्च ॥७।२।९॥ ..
चादिकेनौ । शालिलः । शालिकः । बाली । शालिमान् । दुन्दिलः। तुन्दिकः । तुन्दी । तुन्दवान् । उदरिलः । उदरिकः । उदरी । उदरवान् ॥
स्वाङ्गाद्विवृद्धात्ते ॥ ७ । २। १० ॥ मत्वर्थे इलेकेनाः स्युः । कर्णिलः । कर्णिकः । कर्णी । कर्णवान् ॥
वृन्दादारकः ॥७।२। ११ ॥ मत्वर्थ वृन्दारकः । वृन्दवान् ॥
शृङ्गात् ॥ ७।२।१२॥ मत्वर्थे आरकः । श्रृङ्गारकः । शृङ्गवान् ॥
फलबाच्चेनः ॥ ७ । २।१३।। शृङ्गान्मत्वर्थे । फलिनः। फलवान् । बहिणः । श्रृषिणः । शिखादित्वात् । फली । बहीं ॥
मलादीमसश्च ।।७।२।१४॥ मत्वर्थे । इनः । मलीमसः । मलिनः । मलवान् ॥
मरुत्पर्वणस्तः ।। ७।२ । १५ ।। मत्वर्थे । मरुत्तः । पर्वतः । पक्षे मरुत्वान् । पर्ववान् ॥
वलिवटितुण्डेर्भः ॥७।२।१६ ॥ मत्वर्थे । वलिभः । वटिभः । तुण्डिभः। वलिमान् ॥
ऊर्णाहं शुभमो युस् ॥७।२।१७॥ मत्वर्थे । ऊर्णायुः । अहंयुः । शुभंयुः ॥ कंशंभ्यां युस्तियस्तुतवभम् ॥७॥२॥१८॥ मत्वर्थे ॥ कंयुः । शंयुः । कन्तिः । शन्तिः । कंयः । शेयः ।