________________
A
(२७४)ीहमनमायाकरणम्
-
~
उदन्वान् मेघः । अन्धौ चेति किम् ! उदकषान् घटः ॥
राजन्वान् सुराज्ञि ॥२।१।९८॥ । निपात्यते । राजन्वान् देशः । राजन्वत्यः प्रजाः ॥
नोादिभ्यः ।। २।१ । ९९ ॥ मतोर्मों वः । ऊर्मिमान् । दल्मिमान् इत्यादि ।
आ यात् ॥ ७।२।२॥ रूपात् प्रशस्ताहतात्” इत्या यविधेर्वक्ष्यमाणप्रकृतिभ्यो मतुः, तदस्यास्ति तदस्मिन्नस्तीति विषये । कुमारीमान् । व्रीहिमान् ॥
नावादेरिकः ॥७।२।३॥ मत्वर्थे । नाविकः । नौमान् । कुमारिकः । कुमारीमान् ॥
शिखादिभ्य इन् ॥७।२।४॥ मत्वर्थे । शिखी। शिखावान् । माली । मालावान् ॥
ब्रीह्यादिभ्यस्तौ ॥ ७ । २! ५॥ मत्वर्थे । व्रीहिकः। वीही । व्रीहिमान् । मायिकः । मायी । मायावान् ।
अतोऽनेकस्वरात् ॥ ७।२।६॥ मत्वर्थे इकेनौ । दण्डिकः । दण्डी। दण्डवान् । अनेकस्वरादिति किम् ! । खरवान् ॥
अशिरसोऽशीर्षश्च ॥ ७॥ २॥ ७॥ मत्वर्थे इकेनौ । अशीर्षिकः । अशीर्षी । अशीर्षवान् ॥
अर्थार्थान्ताद् भावात् ॥ ७ ॥ २॥ ८॥ अर्थादर्थान्ताच्च भावार्थादेव इकेनावेव स्याताम् ॥ अर्थिकः । अर्थी । प्रत्यर्थिकः । प्रत्यर्थी । अत्र मतुन । भावादिति किम् । धनाथन्मितुरेव । अर्थवान् ।।