________________
सिमबारक
(२४)
साक्षाद् द्रष्टा ॥ ७।१।१९७ ॥ इन् नाम्नि ॥ साक्षी॥
॥ इती क्षेत्राद्यर्थकाः॥
॥ अथ मत्वर्थीयाः ॥
तदस्यास्त्यस्मिन्निति मतुः॥७।२।१॥ प्रथमान्तात् षष्ठयथें सप्तम्यर्थे वा मतुः, तत्पथमन्तमस्तीति चेद् भवति ॥ गोमान् । यवमान् । वृक्षवान् पर्वतः । इति करणो विवक्षार्थः । तेन, भृमनिन्द्राप्रशंसासु नित्ययोगेऽतिशायने। संसर्गेऽस्तिविवक्षायां प्रायो मत्वादयो मताः ॥ मावर्णान्तोपान्त्यापञ्चमवर्गान्मतोर्मोवः।।२।११९४॥
किंवान्। शमीवान्। वृक्षवान् । मालावान्। अहर्वान् । भास्वान्। मरुत्वान् ॥ चर्मण्वत्यष्ठीवच्चक्रीवत्कक्षीवद्रुमण्वत् ॥ २॥१।९६॥
एते संज्ञायां निपात्यन्ते । चर्मणो नलोपाभावो गत्वं च । चर्मण्वती नाम नदी। अस्थिशब्दस्याष्ठीभावः । अष्ठीवान् जानु । चक्रशब्दस्य चक्रीभावः । चक्रीवान् नाम खरः। चक्रीवान् नाम राजा। कक्ष्याशब्दस्य कक्षीभावः। कक्षीवनाम ऋषिः। लवणशब्दस्य रुमण्भावः । रुमण्यानाम पर्वतः । नाम्नीत्येव । चर्मवती। अस्थिमान्। चक्रवान् । कक्ष्यावान् । लवणवान्,
उदन्वानब्धौ च ॥२।१।९७ ॥ नाम्नि निपात्यते । अन्धिर्जलाधारः । उदन्वान् घटः ॥