________________
श्रीलधुमप्रभाम्य
उष्णादमन्तात्को नाम्नि । शीतं मन्दं करोति शीतकोऽलसः ।
उष्णको दक्षः ॥
()
अधेरारूढे ॥ ७ । १ । १८७ ॥
बर्त्तमानात् स्वार्थे कः । आख्द शब्दे कर्त्तरि कर्मणि च क्तः । अधिको द्रोणः खार्याः । अधिका खारी द्रोणेन ॥ अनोः कमितरि ॥ ७ । १ । १८८ ॥
कः ॥ अनुकामयतेऽनुकः ॥
अभेरीश्च वा ॥ ७ । १ । १८९ ॥
कः समुदायेन चेत् कमिता गभ्यते || अभिकः । अभीकः || सोऽस्य मुख्यः ॥ ७ । १ । १९० ॥
कः । देवदत्तकः सङ्घः ॥
शङ्ङ्खलकः करभे ॥ ७ । १ । १९१ ॥ कप्रत्ययान्तो निपात्यते । शङ्खलकः करभः ॥ उदुत्सोरुन्मनसि ॥ ७ । १ । १९२ ॥
उत्कः । उत्सुकः ॥
कालहेतुफलाद्रोगे ॥ ७ । १ । १९३ ॥ स्यन्तादस्येति कः । द्वितीयको ज्वरः । पर्वतको रोगः । शीतको ज्वरः। प्रायोऽन्नमस्मिन्नानि ॥ ७ । १ । १९४ ॥
स्यन्तात् कः । गुडापूपिका पौर्णमासी ॥
कुलमाषादण ॥ ७ । १ । १९५ ॥ स्यन्तात्मायोऽन्नमस्मिन्नित्यर्थे नाम्नि | कौल्माषी पौर्णमासी ॥
वटकादिन् ॥ ७ । १ । १९६ ॥ स्यन्तात्मायोऽन्नमस्मिन्नित्यर्थे नाम्नि ॥ वटकिनी पौर्णमासी ॥