________________
(२७०)
बीळ घुरेममाव्याकरणम्.
पूर्वमिति क्रियाविशेषणाद् द्वितीयान्तात् केवलात् सादेश्व तृतीयायें कर्त्तरि इन् । पूर्वी । कृतपूर्वी ॥
इष्टादेः ॥ ७ । १ | १६८ ॥
स्यन्ताद्यर्थे कर्त्तरीन् ॥ इष्टी । पूर्त्ती श्राद्धे । व्याप्ये क्तेन इवि सप्तमी ॥ श्राद्धमद्य भुक्तमिकेनौ ॥ ७ ॥ १ ॥ १६९ ॥ कर्त्तरि । श्राद्धमनेनाद्य भुक्तं श्राद्धिकः । श्राद्धी । श्राद्धशब्दः कर्मसाधने द्रव्ये वर्त्तते ॥
अनुपवेष्टा ॥ ७ । १ । १७० ॥ अनुपदमन्वेष्टा अनुपदी गवाम् ॥ दाण्डाजिनिकायःशूलिकपार्श्वकम् ॥ ७ । १ । १७९ ॥
एते यथायोगमिकणुकान्ता निपात्याः, अन्वेष्टर्यये ॥ दाण्डाजिनिको दाम्भिकः । आयः शूलिकः तीक्ष्णोपायोऽर्थान्वेष्टा । पार्श्वकोऽनृजुपायः स एव ॥
क्षेत्रेन्यस्मिन्नाश्य इयः ॥ ७ । १ । १७२ ।। अन्यस्मिन् क्षेत्रे नाश्यः क्षेत्रियो व्याधिः जारथ ॥
छन्दोऽधीते श्रोत्रश्च वा ॥ ७ । १ । १७३ ॥ इयः ॥ छन्दोऽधीते श्रोत्रियः । पक्षे छान्दसः ॥ इन्द्रियम् ॥ ७ । १ । १७४ ॥ इन्द्रादियो निपात्यः । इन्द्रस्य लिङ्गमिन्द्रियम् ॥
तेन वित्ते चञ्चुचणो ॥ ७ । १ । १७५ ॥ विद्याञ्चुः । विद्याचणः । केशचणः ॥ पूरणाद् ग्रन्थस्य ग्राहके को लुक् चास्य ॥७॥१॥१७६॥ तृतीयान्तात् । द्विकः शिष्यः ॥