________________
(388)
षष्टधादेरसङ्ख्यादेः ॥ ७ । १ । १५८ ।। सङ्ख्यापूरणे समट् ॥ षष्टितमः । सप्ततितमः । असारेरिति किम् ? एकषष्टः ॥ नो असङ्ख्यादेः सख्यायाः सङ्ख्यापूरणे । पञ्चमी । असकुख्यादेरित्येव । द्वादशः ॥
मटू ।। ७ । १ । १५९ ॥
पित्तिथट् बहुगणपूगसंघात् ॥ ७ । १ । १६० ॥ सङ्ख्यापूरणे | बहुतिथी । गणतिथः । पुगस्थि: संघतिथः । पित्करणं पुंवद्भावार्थम् ॥
अतोरिथट् ॥ ७ । १ । १६१ ॥
सङ्ख्यापूरणे । इयतिथः । नावतिदः ॥
षट्कतिकतिपयात् थट् ॥ ७ । १ । १६२ ।।
सख्यापूरणे । षष्ठी । कतिथः । कतिपयथः ॥
चतुरः ॥ ७ । १ । १६३ ॥ सख्यापूरणे थट् ॥ चतुर्थी ॥ योगविभाग उत्तरार्थः ॥ येयौ चलुक् च ॥ ७ । १ । १६४ ॥
चतुरः सङ्ख्यापूरणे ॥ तुर्यः । तुरीयः ॥
द्वेस्तीयः ॥ ७ । १ । १६५ ॥ सङ्ख्यापूरणे । द्वितीयः ॥
स्तृ च ।। ७ । १ । १६६ ॥
सख्यापूरणे तीयः । तृतीयः ॥
पूर्वमनेन सादेश्चेन् ॥ ७ । १ । १६७ ॥