________________
r
(२६८) समाजमा anoramma मानार्थापाययें मेयेऽतु यावान्। तावान् । एतावान् धान्यराशिः।
यत्तत्किमः सङ्ख्याया इतिवा॥७।१।१५०॥ . . मानात्पष्ठयर्थे सङ्खयेये ॥ यति । यावन्तः। एवं तति। तावन्तः। कति । कियन्तः ॥ ..
अवयवात्तयट् ॥ ७।१।१५१॥ सङ्ख्यार्थास्त्यन्तात्पष्टयर्थेऽवयविनि। चतुष्टयी शब्दानां प्रवृत्तिः। पश्चतयो यमः ॥
द्वित्रिभ्यामयट् वा ॥७।१।१५२॥ स्यन्तात्षष्ठयर्थे । द्वयम् । द्वितयम् । त्रयम् । त्रितयम् ॥
यादेणान्मूल्यक्रेये मयट् ॥७।१।१५३ ॥ • स्यन्तात्षष्ठयर्थे । दिमयमुदश्विद्यवानाम् । एवं त्रिमयम् । बिमया य वा उदश्विसः। एवं त्रिमयाः । गुणादिति किम् ? हौ बीहियवौ मूल्यमस्योदश्वितः ॥ अधिकं तत्सयमस्मिन् शतसहले
शतिशदशान्ताया डः ॥७।१ । १५४ ॥ विशं योजनशतं योजनसहस्रं वा । एवं त्रिंशम् । एकादशम् ॥
सङ्ख्यापूरणेऽट् ॥ ७।१ । १५५ ॥ सङ्ख्यायाः। एकादशी ॥
विंशत्यादेवी तमट् ॥ ७।१ । १५६ ॥ सङ्ख्यायाः सङ्ख्यापूरणे। विंशतितमः। विंशः । त्रिंशत्तमः । त्रिंशः।। शतादिमासार्धमाससंवत्सरात् ॥ ७।१।१५७ ॥
सङ्ख्यापूरणे तमट् ॥ शततमी। सहस्रतमी । मासतमः । भर्धमासतमः । सम्वत्सरतमो दिवसः ॥