________________
तमकरणम
धनगणाल्लब्धरि ॥ ७।१।९॥
अमन्ताद्यः । धन्यः । गण्यः ॥
णोऽन्नात् ॥ ७ । १ । १० ॥
( २५१)
अमन्ताल्लब्धरि । आन्नः ॥
हृद्यपद्यतुल्यमूल्यवश्यपथ्यवयस्यधेनुष्यागाहेपत्यजन्यधर्म्यम् ॥ ७ । १ । ११ ।।
एरोऽर्थविशेषेषु यान्ता निपात्याः । हृद्यमौषधन । पद्यः पंङ्कः । तुल्यं भाडम् । गृल्पं धान्य । वश्यो गौः । पथ्यमोदनादि । वयस्यः सखा । धेनुष्या पीतदुग्धा गौः । गाईपत्यो नामाग्निः । जन्या वरवयस्याः । धर्म्ये सुखम् ॥
नौविषेण तायवव्ये ॥ ७ । १ । १२ ॥
यथासंख्यं यः । नाव्या नदी । विष्षो गजः ॥ न्यायार्थादनपेते ॥ ७ । १ । १३ ॥ यः । न्याय्यम् । अर्थ्यम् ॥
मतमदस्य करणे ॥ ७ ॥ १ ॥ १४ ॥
यः । करणं साधकतमं कृति । मत्यम् । मद्यम् ॥ तत्र साधौ ॥ ७ । १ । १५ ॥
यः । सभ्यः ॥
पथ्यतिथिवसतिस्वपतेरेयण् ॥ ७ । १ । १६ ॥
1
तत्र साधौ । पाथेयम् । आतिथेयम् । वासतेयम् । स्वापतेयम् ॥ भक्ताण्णः ॥ ७ । १ । १७ ॥
तत्र सावौ । भाक्तः शालिः ॥