________________
(२४२)
भीलघुहेमप्रभाव्याकरणम्.
.wwwwwwwwwwwwwwwww
कालात्पथमान्तादस्येत्यर्थे इकण प्रथमान्तश्चेद्दीर्घः । कालिकमृणम् ॥
आकालिकमिकश्चाद्यन्ते ॥ ६ । ४ । १२८ ॥
आकालादिक इकण च भवत्यर्थे आदिरेव यद्यन्तः। आकालिकोऽनध्यायः। पूर्वेधुर्यस्मिन् काले प्रवृत्तोऽपरेयुरप्येतस्मात् कालाद्भवतीत्यर्थः । आकालिका आकालिकी वा विद्युत् । आजन्मकालमेव स्याजन्मानन्तरनाशिनीत्यर्थः ॥ त्रिंशदिशतेर्डकोऽसंज्ञायामाहदर्थे ॥६। ४ । १२९ ॥
त्रिंशकम् । विंशकम् । त्रिंशकः । विंशकः । असज्ञायामिति किम् ? । त्रिंशत्कम् । विंशतिकम् ॥ - संख्याडतेश्चाशत्तिष्टेः कः ॥ ६ । ४ । १३०॥
त्रिंशदिशतिभ्यामाहेदर्थे । द्विकम् । बहुकम् । गणकम् । यावत्कम् । कतिकम् । त्रिंशत्कम् । विंशतिकम् । अशत्तिष्टेरिति किम् ? । चात्वारिंशत्कम् । साप्ततिकम् । पाष्टिकम् ॥
कसमासेऽध्यधः ॥ १।१। ४१ ।। संख्यावत् । अध्यकम् । अध्यर्धशूर्पम् ।।
अर्धपूर्वपदः पूरणः ॥ १।१ । ४२ ॥ कसमासे संख्यावत् । अर्धपश्चमकम् । अर्धपश्चमशूर्पम् ॥
शतात्केवलादतस्मिन्येकौ ॥ ६।४ । १३१॥
आहेदर्थे । शत्यम् । शतिकम् । केवलादिति किम् ? । द्विशतकम् । अतस्मिन्निति किम् ? । शतकं स्तोत्रम् ॥
वातोरिकः ॥ ६।४ । १३२ ॥ संख्याया आईदर्थे । यावतिकम् । यावत्कम् ॥