________________
तद्धितप्रकरणम्.
(२३५)
-
~~
~
~
~~~~~~~~~~~~~~
इकण । आपूपिकः ॥
नियुक्तं दीयते ॥६। ४ । ७०॥
प्रथमान्ताच्चतुर्थ्यर्थे इकण । तच्चेन्नियुक्तमव्यभिचारेण नित्यं वा दीयते । आग्रभोजनिकः ॥
शाणामांसौदनादिको वा ॥६।४ । ७१ ॥ तदस्मै नियुक्तंदीयते इति विषये । शाणिका । मांसौदनिका । शाणिकी । मांसौदनिकी ॥
भक्तोदनाहाणिकट् ॥६। ४ । ७२ ॥ तदस्मै नियुक्तं दीयते इति विषये । भाक्तः । औदनिकी। भाक्तिकः ॥ औदनिकः ॥
नवयज्ञादयोऽस्मिन् वर्तन्ते ॥६। ४ । ७३॥ इकण । नावयज्ञिकः । पाकयज्ञिकः ॥
तत्र नियुक्ते ॥६।४। ७४ ॥ इकण । शौल्कशालिकः ॥ दौवारिकः ॥
अगारान्तादिकः ॥६।४ । ७५॥ तत्र नियुक्ते । देवगारिकः ॥
अदेशकालादध्यायिनि ॥६। ४ । ७६ ॥ सप्तम्यन्तादिकण् । आशुचिकः । सानिध्यकः । अदेशकलादिति किम् ? । स्वाध्यायभूमावध्यायी ॥
निकटादिषु वसति ॥६।४। ७७॥ इकण् । नैकटिकः । आरण्यिको भिक्षुः । वार्शमूलिकः ॥