________________
( २३६ )
श्रीलघुपमभाव्याकरणम्,
सतीर्थ्यः ॥ ६ । ४ । ७८ ॥
समानतीर्थात्तत्र वसत्यर्थे यो निपात्यः समानस्य च सभावः । T: 11 ॥
सतीर्थ्यः
प्रस्तारसंस्थानतदन्तकठिनान्तेभ्यो व्यवहरति ॥
६ । ४ । ७९ ॥
इकण् । प्रास्तारिकः । सांस्थानिकः । कांस्यप्रस्तारिकः । गौसंस्थानिकः । वांशकठिनिकः ॥
संख्यादेश्चार्हदलुचः ॥ ६ । ४ । ८० ॥
वक्ष्यमाणः प्रत्ययः स्यात् । चान्द्रायणिकः । द्वैचन्द्रायणिकः । अलुच इति किम् ? | द्विशूर्पेण क्रीतेन क्रीतं द्विशौपिंकम् ॥
गोदानादीनां ब्रह्मचर्ये । ६ । ४ । ८१ ॥ इकण् । गौदानिकम् । आदित्यत्रतिकम् ||
चन्द्रायणं च चरति ।। ६ । ४ । ८२ ।। अस्माद् द्वितीयान्ताद्गोदानादेश्व चरत्यर्थे इकण । चान्द्रायणिकः । गौदानिकः ॥
देवत्रतादीन् डिन् । ६ । ४ । ८३ ॥
चरति । देवव्रती । महाव्रती ॥
1
I
डकश्चाष्टाचत्वारिंशतं वर्षाणाम् || ६ । ४ । ८४ ॥
चरत्यर्थे डिन् । अष्टाचत्वारिंशकः । अष्टाचत्वारिंशी ॥ चातुर्मास्यं तौ यलुक् च ॥ ६ । ४ । ८५ ॥
चरति । चातुर्मासकः । चातुर्मासी ॥