________________
ततिप्रकरणमा
द्वितीयान्तादिकण | धार्मिकः । आधर्मिकः । षष्ठा धयें ॥ ६ । ४ । ५० ॥
इक' । शौल्कशालिकम् ॥
ऋन्नरादेरण् ॥ ६ । ४ । ५१ ॥ षष्ठ्यन्ताद्धर्म्यं । नारं नुर्धर्म्यम् । पैत्रम् । नारम् । माहिषम् ॥ विभाजयितृविशसितुणीड्लुक् च ॥ ६ । ४ । ५२ ॥
षष्ठ्यन्ताद्धर्म्येऽण् । वैभाजित्रम् | वैशस्त्रम् ||
1
( २३३)
अवक्रये ॥ ६ । ४ । ५३ ॥
षष्ठ्यन्तादिकण | आपणिकः ॥
तदस्य पण्यम् ॥। ६ । ४ । ५४ ॥ इक । आपूपिकः ॥
किशरादेरिकट् || ६ । ४ । ५५ ॥ तदस्य पण्यमिति विषये । किशरिकी । तगरिकी ॥ शलालुनो वा ।। ६ । ४ । ५६ ।। तदस्य पण्यमिति विषये इकट् । शलालुकी । शालालुकी ॥ शिल्पम् ॥। ६ । ४ । ५७ ॥
तदस्येत्यर्थे इक तच्छिल्पं चेत् । नार्तिकः । मार्दङ्गिकः ॥ मडुकझर्झराद्वाऽण् ॥ ६ ॥ ४ । ५८ ॥
तदस्य शिल्पमिति विषये । माड्डुकः । माड्डुकिकः । झार्झरः । झार्झरिकः ॥
शीलम् ॥। ६ । ४ । ५९॥