________________
( २३२ )
भीमाचीकरणम्.
द्वितीयान्ताद्गच्छवीकणः । प्रतिपथिकः । प्रातिपथिकः ॥
माथोत्तरपदपदव्याक्रन्दाद्धावति ॥ ६ । ४ । ४० ॥ द्वितीयान्तादिकण् । दाण्डमाथकः । पादविकः । आकन्दिकः ॥
पश्चात्यनुपदात् । ६ । ४ । ४१ ।।
द्वितीयान्ताद्धावतीकण । आनुपदिकः ॥
सुस्नातादिभ्यः पृच्छति ॥ ६ । ४ । ४२ ॥
द्वितीयान्तेभ्य इकण | सौस्नाविकः । सौखरात्रिकः ॥
प्रभूतादिभ्यो ब्रुवति ॥ ६ । ४ । ४३ ॥ द्वितीयान्तेभ्य इकण । प्राभूतिकः । पार्याप्तिकः ॥
माशब्द इत्यादिभ्यः ॥ ६ । ४ । ४४ ॥ ब्रुवतीकण । माशब्दिकः । कार्यशब्दिकः । शाब्दिकदार्दुरिकलालाटिककौक्कुटिकम् ॥ ६।४।४५ ॥
इकणप्रत्ययान्तं निपात्यते । शाब्दिको वैयाकरणः । दार्दुरिको वादित्रकृत् । लालाटिकः प्रमत्तः सेवाकृत् । कौककुटिको भिक्षुः ॥
1
समूहार्थात्समवेते ॥ ६ । ४ । ४६ ॥
द्वितीयान्तादिकम् । सामूहिकः । सामाजिकः ॥
पर्षदो यः ॥ ६ । ४ । ४७ ॥ अस्माद् द्वितीयान्तात् समवेते यः । पार्षद्यः ॥
सेनाया वा ॥। ६ । ४ । ४८ ॥ द्वितीयान्तात् समवेते ण्यः । सैन्यः । सैनिकः ॥
धर्माधर्माच्चरति । ६ । ४ । ४९ ॥