________________
...
तरितप्रकरणम्...
पक्षिमत्स्यमृगार्थानति ॥ ६ । ४ । ३१ ॥ द्वितीयान्तादिकण् । पाक्षिकः । मात्स्यिकः । मार्गिकः ॥
परिपन्थात्तिष्ठति च ॥ ६ । ४ । ३२॥ द्वितीयान्ताद् घ्नतीकण् । पारिपन्थिकश्चौरः ।।
परिपथात् ॥ ६ । ४ । ३३ ॥ द्वितीयान्तात्तिष्ठत्यर्थे इकण् । पारिपथिकः ।।
अवृद्धग्रहति गर्थे ॥ ६ । ४ । ३४ ॥ द्वितीयान्तादिकण । द्वैगुणिकः। अवृद्धरिति किम् ?। वृद्धि गृहातीति वाक्यमेव ॥
कुसीदादिकट् ॥ ६।४ । ३५॥ द्वितीयान्ताद् गये गृह्णति । कुसीदिकी॥ . दशैकादशादिकश्च ।। ६।४ । ३६ ।।
द्वितीयान्तानिन्ये गृह्णतीकट् । दशैकादशिका । दशैकादशिकी। दशैकादशादित्यत एव निपातनादकारान्तत्वम् । तच्च वाक्ये प्रयोगार्थम् । दशैकादशान गृह्णतीति ॥ अर्थपदपदोत्तरपदललामप्रतिकण्ठात्॥६।४।३७ ॥
द्वितीन्ताद्गृह्णतीकण । आर्थिकः । पादिकः । पौर्वपदिकः । लालामिकः । प्रातिकण्ठिकः ॥
परदारादिभ्यो गच्छति ॥ ६।४ । ३८ ॥ द्वितीयान्तेभ्य इकण । पारदारिकः । गौरुदारिकः ॥
प्रतिपथादिकश्च ॥६। ४ । ३९ ॥