________________
( २२८ )
श्रीमायाकरणम्.
इकण् ॥ ६ । ४ । १ ॥
आपादान्ताद्यदनुक्तं स्यात्तत्रायमधिकृतो ज्ञेयः ॥ तेन जितजयद्दीव्यत्खनत्सु ॥। ६ । ४ । २ ॥
इकण । आक्षिकम् । आक्षिकः । आभ्रिकः ॥
1
संस्कृते ॥। ६ । ४ । ३॥
टान्तादिकण । दाधिकम् । वैधिकः ॥
कुलत्थकोपान्त्यादण | ६ । ४ । ४ ॥
न संस्कृते । कौत्थम् । तैत्तिडीकम् ॥
संसृष्टे ॥ ६ । ४ । ५॥
टान्तादिकं । दाधिकम् ॥
लवणादः ।। ६ । ४ । ६ ॥
तेन संसृष्टे । लवणः सूपः ॥
चूर्णमुद्राभ्यामिनणौ ॥ ६ । ४ । ७ ॥
* तेन संसृष्टे । चूर्णिनोऽपूपाः । मौद्गी यवागूः ॥
व्यञ्जनेभ्य उपसिक्ते ॥ ६ । ४ । ८ ॥
टान्तेभ्य इण । तैलकं शाकम् । उपसिक्तं संसृष्टमेव तत्र संसृष्ट इत्येव सिद्धे नियमार्थं वचनम् । व्यञ्जनैः संसृष्टे उपसिक्त एव उपसिक्ते च व्यञ्जनैरेव ॥
तरति ।। ६ । ४ । ९॥
टान्तादिकण । औडुपिकः ॥
नौद्विस्वरादिकः ॥ ६ ॥ ४ । १० ॥