________________
ततिप्रकरणम्.
तसिः ॥। ६ । ३ । २११ ॥
टान्तात्तुल्यदिके । सुदामतो विद्युत् ॥
यश्वोरसः ॥। ६ । ३ । २१२ ॥
टान्तात्तुल्यदिके तसिः । उरस्यः । उरस्तः ॥
( २२७ )
सेर्निवासादस्य ॥ ६ ॥ ३ । २१३ ॥ यथोक्तं प्रत्ययः । स्रौघ्नः । नादेयः ॥
आभिजनात् । ६ । ३ । २१४ ॥ अभिजनाः पूर्वबान्धवास्तन्निवासात्स्यन्तात्षष्ठ्यर्थे यथोक्तं प्रत्ययः । स्रौघ्नः । राष्ट्रियः ॥
शण्डिकादेयः || ६ । ३ । २१५ ॥
स्यन्तादाभिजननिवासार्थादस्येत्यर्थे । शाण्डिक्यः । कौचवार्यः ॥ सिन्ध्वादेरञ् ॥ ६ ॥ ३ । २१६ ॥
स्यन्तादाभिजननिवासार्थात्षष्ट्यर्थे । सैन्धवः । वार्णवः ॥
लातुरायण ॥ ६ | ३ | २१७ ॥ स्यन्तादाभिजन निवासार्थात्षष्ट्यर्थे । सालातुरीयः पाणिनिः ॥ तूदीवत्या यण् || ६ । ३ । २१८ ॥ आभ्यां स्यन्ताभ्यामाभिजननिवासार्थाभ्यां षष्ट्यर्थे एयण् । तौदेयः । वार्मतेयः ॥
गिरेरीयोsस्त्राजीवे ॥ ६ । ३ । २१९ ॥
गिरेर्य अभिजनो निवासस्तदर्थात्स्यन्तात्षष्ट्यर्थेऽस्त्राजीवे ईयः। हगोलीयः ।
॥ इति शैषिकाः ॥