________________
(२२६)
बालाघुममाव्याकरणम्
अभिनिष्कामति द्वारे ॥६।३ । २०२ ॥ अमन्ताद्ययोक्तं प्रत्ययः । माथुरम् । नादेयम् । राष्ट्रियं द्वारम् ॥
गच्छति पथि दुते ॥ ६ । ३ । २०३ ॥ अमन्ताद्यथोक्तं प्रत्ययः ॥ स्रोतः पन्था दूतो वा । ग्राम्यः ॥
भजति ॥ ६।३। २०४ ॥ अमो यथोक्तं प्रत्ययः । सौनः । राष्यिः॥
महाराजादिकण ॥ ६ । ३ । २०५ ॥ अमो भजति । माहाराजिकः ॥ ___ अचित्ताददेशकालात् ॥ ६ । ३ । २०६ ॥
अमो भजतीकण् । आपूपिकः। अचित्तादिति किम् ? । दैवदत्तः । अदेशेत्यादि किम् ? । सौनः । हैमनः ॥
वासुदेवार्जुनादकः ॥ ६ । ३ । २०७ ॥ अमन्ताद् भजत्यर्थे । वासुदेवकः । अर्जुनकः ॥ गोत्रक्षत्रियेभ्योऽका प्रायः ॥६।३। २०८ ॥
अमन्तेभ्यो भनति । औपगवकः । नाकुलकः। प्राय इति किम् ?। पाणिनीयः ॥
सरूपाद्रेः सर्वं राष्ट्रवत्॥ ६ । ३ । २०९ ॥
राष्ट्रक्षत्रियार्थादमो भजति। वृजिकः। मद्रकः। पाण्डवकः। सरूपादिति किम् ? । पौरवीयः ॥
टस्तुल्यदिशि ॥ ६।३ । २१०॥ यथोक्तं प्रत्ययः । सौदामनी विद्युत् ॥