________________
सचिवकरणम.
.
(२२५)
टान्तायथाविहितं प्रत्ययः । शैवो प्रन्थः । सिद्धसेनीयः स्वधः॥
नानि मक्षिकादिभ्यः॥६।३। १९३॥ टान्तेभ्यो यथाविहितं कृते प्रत्ययः । माक्षिकं मधु । सारथम् ॥
कुलालादेरकञ् ॥ ६ । ३ । १९४ ॥
तेन कृते नाम्नि। कौलालकं घटादिभाण्डम् । वारुटकं सूर्पपिटकादि ॥
सर्वचर्मण ईनेनौ ॥ ६ । ३ । १९५ ॥ तेन कृते नाम्नि । सर्वचर्मीणः । सार्वचर्मीणः ॥
उरसो याणौ ॥ ६।३। १९६ ॥ तेन कृते नाम्नि । उरस्यः । औरसः ॥
छन्दस्यः ॥ ६।३। १९७॥ छन्दसस्तेन कृते नाम्नि यो निपात्यः । छन्दस्यः॥
अमोऽधिकृत्य ग्रन्थे ॥ ६।३। १९८॥ कृते यथाविहितं प्रत्ययः । भाद्रः । सौभद्रः ॥
ज्योतिषम् ।। ६।३ । १९९ ॥ ज्योतिषोऽमोऽधिकृत्य कृते ग्रन्थे अण वृद्धयभावश्च निपात्यः॥
शिशुक्रन्दादिभ्य ईयः॥ ६ । ३ । २००॥ अमोऽधिकृत्य कृते ग्रन्थे । शिशुक्रन्दीयः । यमसभीयो ग्रन्थः ॥
द्वन्द्वात्प्रायः ॥ ६।३। २०१॥
अधिकृत्य कृते ग्रन्थे ईयः । वाक्यपदीयम् । प्राय इति किम् । दैवासुरम् ॥.